________________
09
PRESERVED AT ANHILWAD PATAN.
भांडशालिना द्वौ पुत्रौ लोलाकस्य बभूवतुः । . धंधूकाभिधः प्रथमः श्रीमदाद्याजिनार्चकः ॥ ९ ॥ वाहिनी गेहिनी तस्य बभूव प्रियवादिनी । यशोवीरस्तयोः पुत्रः सुशीला सिंधुका सुता ॥ १० ॥ धर्मोच्छंखलभांडशालिकयशश्चंद्रस्य दानप्रिया नित्यौचित्यविनीतताजेवगुणालंकारशृंगारिता । वौदार्यगुणैविवेकविशदैदूर यया रंजिता आत्मन्यप्रतिमप्रमोदपरतां नीताः समस्ता जनाः ॥ ११ ॥ सा जज्ञे गेहिनी नाम्ना जिंदिकाभांडशालिनी । सुकतोपार्जिका श्रीमद्देवसद्गुरुपूजया ॥ १२ ॥ यशश्चंद्रस्य जज्ञात द्वेऽपत्ये भांडशालिनः । स्वगृहश्रियः सीमंतमौक्तिकतिलकोपमे ॥ १३ ॥ आद्या पुत्री समजनि वरा राजिका नामधेया मंदाकिन्युलसितलहरीशीलसंभूषितांगी । यस्या अंतःकरणमृदुतासंगतं जंतुजातं लक्ष्मीः साक्षादिव निजगृहे जंगमा यावतीर्णा ॥ १४ ॥ . ठकुरशोभनदेवस्तामथो परणीतवान् । संतोषभूषिता जाता संतोषाख्या तयोः सुता ॥ १५ ॥ श्रीसर्वज्ञपदांबुजार्चनरातिः संप्राप्तपुण्योन्नतिः किंचिन्मीलितमालती दलभरस्वच्छेतिशीले मतिः । भक्त्यावेशसमुलसद्गुरुनतिविस्तीर्णदानास्थितिनिच्छमेकतपोविधानवसतिर्यस्या गुणैः संगतिः । दाक्षिण्योदधिभांडशालिकयशश्चंद्रस्य पुत्रोपरो धर्मोद्दामनराग्रणीरिह यशःपालाभिधः शुद्धधीः ।