________________
82
EXTRACTS FROY MANUSCRIPTS
हृद्यप्रोद्यदखर्वपर्बसुभगः सच्छाययाऽलंकृतः सदत्तोज्ज्वलमय॑मौक्तिकमणिभूभृत्प्रतिष्ठोन्नतः । प्रेखत्पत्रपरिष्कृतः परिलसच्छाखावृतो गुर्जरः श्रीमालाभिध इत्युदारचरितः ख्यातोऽस्ति वंशः क्षितौ ॥ १ ॥ वंशे तत्र बभूव मौक्तिकसमः सद्वृत्तशैत्याश्रितः ख्यातो ललकमांडशालिक इति स्वच्छस्वभावान्वितः । चित्रं छिद्रसमुज्झितोऽपि नितरां भूत्वा गुणानां पदं विश्वप्राणिहाद व्यवत्त वसति यच्छद्मवंध्याशयः ॥ २ ॥ तस्याभूल्ललना नान्ना लल्लिकाभांडशालिनी । शीलमुक्तावली कंठे यया दधे समुज्ज्वला ॥ ३ ॥ संतस्तयोस्त्रयः पुत्राः पवित्राश्चरितैः शुभैः । अजायंतागारभारोद्धारधुर्य वविश्रुताः ॥ ४ ॥ तेषां जविष्ठोऽजान भांडशाली ख्यातो गुणैर्लोलकनामधेयः । श्रीमज्जिनाज्ञाकरणप्रतिज्ञाविभूषणं वक्षसि यस्य यज्ञे ॥ ५ ॥ शद्धात्माजनि भांडशालिकयशश्चंद्राभिधानोऽपरः श्रीमद्देवगुरुप्रयोजनविधौ बद्धादरोऽनारतं । येनौदार्यगुणैरनर्गलतरैरावर्य विश्राणिता पात्रेषु स्थिरताप्रवर्तनकृते लक्ष्मीर्मनःस्वीच्छया ॥ ६ ॥ ततोऽभवदेवकुमारनामा सुतो गुणैर्देव कुमारमूर्तिः । प्रवर्त्तयन्निःकपटं जिनानां वाँ सपर्यामवदाताचेत्तः ॥ ७ ॥ लोलांकस्याभवद्भांडशालिनो भांडशालिनी। लक्ष्मीरित्यभिधानेन जिनपूजापरायणा ॥ ८ ॥