________________
78
EXTRACTS FROM MANUSCRIPTS
मुक्ताफलारंभरतिर्न दीनो विश्रामभूमिः पुरुषोत्तमानाम् । पयोधिबन्नित्यगभीरभावः षष्ठस्तनूजोऽजनि चापदेवः ॥ २७ ॥ तत्रासीद्रामदेवस्य वल्लभा शीलशालिनी । आसदेवीति विख्याता सुरूपा रूपिकापरा ॥ २८॥
यशोधरस्य जाया च थेहिका हितकारिणी । शोभना सर्वदेवस्य चापदेवस्य शांतिका ॥ २९॥
अस्ति स्म थेहड इति प्रथिताभिधान : कुंदावदातहृदयः सदयः सदैव । वीरो यशोधरसुतः कलितः कलाभिनित्यप्रशस्तचरितः प्रणतो गुरूणाम् ॥ ३० ॥ आनंदकः सुमनसां सततं सुधर्मबद्धादरः कृतविमानमनःप्रवृत्तिः । आस्ते महेंद्र इव वल्लभ चित्र लेखः श्रीरामदेवतनयो विनयी महेंद्रः ॥ ३१ ॥ हरिचंद्राभिधानश्च द्वितीयो भूत्तनूद्भवः । वल्लभः सर्वलोकानां प्रतिपच्चंद्रमा इव ॥ ३२ ॥ विनयी नयसंवासो चापदेवस्य नंदनः । गोसलाख्यः सुशीलो भूगुणरत्नमहानिधिः ॥ ३३ ॥ आसीदाद्या महेंद्रस्य महाश्रीरूपसप्रिया । राज्यश्रीः शीलकारुण्यदानौचित्या दिशालिनी ॥ ३४ ॥ राज्यश्रियस्त्रयः पुत्रा वीसलोथ यशोभटः । वोचिस्थश्चेति संजाता गुणरत्नौघरोहणाः ॥ ३५ ॥ राज्यश्रीरन्यदा तत्र शुद्धश्रद्धा बंधुरा । इत्येवं चिंतयामास निस्समानगुणोज्ज्वला ॥ ३६ ॥