________________
PRESERVED AT ANHILWAD PATAN.
77
विवेकजनवल्लभः स्फटिकशैलशुद्धाशयः कलंकविकलः सदा सकललोकसंतोषदः । बभूव जिनपूजकः सुगुरुवंदकः श्रावकस्तृतीय इह नंदनः सुजननंदनः श्रीधरः ॥ १९ ॥ तत्रोन्जिलस्य समजायत धर्मपत्नी मंदाकिनीसलिलनिर्मलशीलयुक्ता। लक्ष्मीः समस्तजनवाञ्छितदानदक्षा चित्रं न निर्गुणरता न चलस्वभावा ॥ २० ॥ उल्लासकाः सुमनसां विदितानुभावसंपादकाः समयिनां बहुलं फलानाम् । नित्यं निजक्रमयुता भुवनप्रसिद्धाः पुत्रास्तयो ऋतुसमाः षडिहोपजाताः ।। २१ ॥ कारुण्यरत्नांकुरमेरुशैलः सौजन्यपीयूषरसांबुराशिः । आद्यः सुतोजायत वर्द्धमानस्तेषां कलाभिः परिवर्द्धमानः ॥ २२ ॥ अपारगांभीर्यनिवासभूमिर्विद्वत्सु श्राद्धादिजनोपकारी। अनल्पलावण्ययुतो द्वितीयः पुत्रः पवित्रोऽजनि मूलदेवः ॥ २३ ॥ कीर्तेः पात्रं निजगुरुगिरां पालने लब्धलक्षः स्थानं नीतेर्जनकनयनानंददायी सदैव । दूरभूिताखिलख--लो जातवान्पुत्ररत्नं तार्तीयीकः कुशलवसुतावल्लभो रामदेवः ॥ २४ ॥ बभूव कारुण्यपरिग्रहाय कृताग्रहः कुग्रहदर्पहंता। विपत्तिसंपत्तिसमानुरागी यशोधरो धारिमधाम तुर्यः ॥ २५ ॥ जिनेंद्रपूजारचनानुबंधबद्धोद्यमो निर्मलकीतिशेषः । भक्त्या समासेवितसर्व्वदेवस्ततोऽनुजोजायत सर्वदेवः ॥ २६ ॥