SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 76 EXTRACTS FROM MANUSCRIPTS येनाद्यापि सुखं सुखेन कृतिनः संसारवारांनिधेः पारं यांति परं निरस्तसकलक्लेशावकाशोदयाः ॥ ११ ॥ शिरसि नमनं यः साधूनां दृशोरतिशांततां वदनकमले सत्या वाणी श्रुतौ श्रवणं श्रुतेः । मनसि विमलं बोधं पाणी धनस्य विसर्जन जिनगृहगतिः पादांभोजे चकार विभूषणम् ॥ १२ ॥ प्रालयशैलशिखरोज्ज्वलकांतिकांतश्रीनेमिनाथभुवनच्छलतश्च येन । मूर्तिः स्वधर्म इव सर्वजनीयदातुराविष्कृतः सकललोकहितावहेन ॥ १३ ॥ चारित्राचरणैकधीरमनसो गीतार्थचूडामणेः विद्यानां मणिदर्पणस्य शमिनः सेव्यस्य पुण्यार्थिभिः । यश्च श्रीमुनिचंद्र सूरिसुगुरोः पादांबुजं सेवितुं वाञ्छन्मत्सरवर्जितः सुरवधूप्राणेश्वरत्वं गतः ॥ १४ ॥ निःसीमधर्मनिलयं कलितं सदथैः सद्वत्तताविरहितं न कदाचनापि ।। ख्यातं जगत्रयमिवापदनंतसत्वं पूर्णीसुतत्रयमतीव गभीरमध्यम् ॥ १५ ॥ लक्ष्मीविलासकलितो बलिदर्पहंता सत्यानुरागिहृदयो विधिपक्षपाती। लक्ष्मीधरः सुतवरोजनि तत्र मुख्यश्चित्रं तथापि न जनार्दनतामुपेतः ॥ १६ ॥ आराधितश्रीजिननेमिनाथः संपादितानंतखलप्रमाथः । आसीद द्वितीयो धनदेवसंज्ञः सदा सदाचारविचारविज्ञः ॥ १७ ॥ यस्यासमानफलकांतगुणाभिरामं संरुद्धरंध्रमविलाभिजलप्रवेशम् । सद्वीवरैरनुगतं मतियानपात्रं गंभीरकार्यजलधेः परभागमोते ॥ १८ ॥
SR No.007582
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1896
Total Pages420
LanguageEnglish
ClassificationBook_English & Catalogue
File Size88 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy