________________
PRESERVED AT ANHILWAD PATAN.
सच्छायः सरसः सपत्रनिचयः शाखाप्रशाखांचितः पीनस्कंधविराजितः प्रतिपदं संतापहारी सताम् । चिंतागोचरवारिसुद्धविसरं दातुं समर्थोऽर्थिनां तत्राजायत कल्पपादपसमः श्रीजावडः श्रावकः ॥ २ ॥ तस्याभवन्निखिलकल्मषदोषहीनास्तिस्रः प्रियास्त्रिपथगा इव पूरिताशाः । लोकत्रयप्रथितशीलयुतास्तथापि प्राप्ताः कदाचन न दीनपथातिथित्वम् ।। ३ ।। जिनदेवी बभूवासामाद्या मधुरवादिनी । स्त्रैणेचितगुणोपेता जिनेद्रपदपूजिका ॥ ४ ॥ राकासुधारश्मिसमानशीला शुद्धाशयानंदितदीनलोका। रूपश्रिया तर्जितकामकांता कांता द्वितीयाजनि सर्वदेवी ॥५॥ कुंदावदातद्युतिशीलशालिनी मातेव सर्वस्य जनस्य वत्सला ।
णी तथापूर्णमनोरथस्थितिर्जाता तृतीया गृहिणी विवेकिनी ॥ ६ ॥ या सर्वदा सर्वजनोपकारी गंभीरधीरो जिनधर्मकारी। सं दुर्लभं दुर्लभमल्पपुण्यैः प्रासूत तत्र प्रथमा तनूजम् ।। ७ ।। संजातौ भुवि विख्याती सर्वदेव्याः सुतावुभौ। उदयाचलचूलायाः सूर्याचंद्रमसाविव ॥ ८ ॥ आद्यस्तयोः सज्जनचित्तहारी नयी विनीतः सकलोपकारी । जिनेंद्रपूजाविहितानुरागः साधुप्रियोऽजायत देवनागः ॥९॥ द्वितीयश्च गुणावासः सत्यशौचसमन्वितः। . कलावानुज्ज्वलो जातः कुलकैरवचंद्रमाः ॥ १० ॥ सूरेः श्रीजिनवल्लभस्य गणिनः पादप्रसादेन तलुब्धं यन विवेकयानमसमं दुःप्रापमल्पाशयैः ।