________________
PRESERVED AT ANHILWAD PATAN.
79
प्राणा वायुमयाः स्वभावतरला लक्ष्मीः कटाक्षस्थिरा स्वान्यं बालविलंबितातनुशिलावस्थानदुःस्थं सदा। वातांदोलितदीपकुडलदलप्रायः प्रियः संगमस्तन्नास्तीह किमप्युदारमनसामाशामिवेशास्पदम् ।। ३७ ॥ तलुब्ध्वा मनुजेषु जन्म विमलं संप्राप्य देशादिकं श्रुत्वा श्रीजिनचंद्रवाचमुचितां श्रीमद्गुरूणां पुरः। स्वाधीने च धने च संगतवति स्वीये कुटुंबे सतां युक्तो धर्मविधान एव सततं कर्तुं महानुद्यमः ॥ ३८ ॥ सम्यग्ज्ञानपुरःसरश्च महतां धर्मादरः संमतः प्रायस्तच्च जिनागमादविकलं संजायते धीमताम् । सर्व लोकमवेक्ष्य शांतविशदप्रज्ञाप्रकर्षोद्यम काले सोपि कलौ न्यवेशि मुनिभिः संघोत्तमैः पुस्तके ॥ ३९ ॥ चारित्रभारचरणासहमानसेन पंचप्रकारविषयामिषलालसेन । पात्रादिदानमयधर्मवता तदेयं लेख्यं परिग्रहवता गृहिणा तदेव ॥ ४० ॥ एवं विचित्य सुचिरं श्रेयोथै स्वस्य सांबराज्यश्रीः । श्रीशांतिनाथचरितस्य पुस्तक लेखयामास ।। ४ १ ॥ विरचितविचित्ररेखं सुवर्णपत्रावलीकलितशोभम् । यद्भाति करे विदुषां कंकणमिव कीलिकारम्यम् ॥ ४२ ॥ राकाशीतांशुशुभ्रः स्फुरदमलदृशः सर्ववस्तुप्रकाशी सम्यग्ज्ञानप्रदीपस्त्रिभुवनभवनान्यंतरे भासमानः । यावन्मोहांधकारं शमयात सकलं पूरिताशेषदोषं तावन्नंद्यान्मुनींद्र्रयमिह सततं पुस्तकः पठयमानः ॥ ४३ ॥