________________
EXTRACTS FROM MANUSCRIPTS
दानादिगुणगणारामयश:कुसुमसौरभैः । वासिताशोऽपरो जात आशाधरस्तृतीयकः ॥ ६ ।। समुद्धरस्य निर्माया जाया सौभाग्यशोभिनी। शोभिनीत्याख्यया जाता शीलालंकारधारिणी ॥ ७ ।। धर्मद्रुमस्य मूलाभो जज्ञे मूलूः सुतस्तयोः । पुत्री सरस्वती लील जातौ ब्राह्मीश्रियाविव ॥ ८ ॥ गहिनी मूलूकस्यास्ति नाल्ही गंगेव देहिनी । तयो रत्नत्रयाधाराः पुत्राः संजज्ञिरे त्रयः ॥ ९ ॥ आद्यो वइराकनामा द्वितीयच्छोहडः सुधीः । सीहडस्तृतीयः ख्यातः पुमर्था मूर्तका इव ।। १० ।। पुत्रिकाश्च तयोस्तिस्रो जाताः शक्तित्रयोपमाः । चापला कर्मों की सत्यशीलदयान्विताः ॥ ११ ॥ वयराकस्य सद्भार्या नयविनयगुणान्विता । वस्तिणिर्वस्तुतत्वज्ञा स्वजनानंददायिनी ॥ १२ ॥ तस्या जाताविमौ पुत्रौ धर्मशीलपरायणौ। आद्यो मदन एवासौ द्वितीयः कर्मसिंहकः ॥ १३ ॥ अथाशाधरकांताभूखेतः क्षेत्रं सुकर्मणाम् । लक्ष्मीधरस्तयोः पुत्रो लक्ष्मीवर इवापरः ॥ १४ ॥ रूपला रुक्मिणीवास्ति तस्य सद्धर्मचारिणी। तत्सुतो हरपालाख्यछाडू दक्षा च तत्सुता ॥ १५ ॥ एवं स्वकुटुंबयुतः साधुर्मूलूः स्वमातृश्रेयसे । श्रीमन्महावीरचरित्रं गृहीतं निजगुरुभिर्वाचयांचक्रे ॥ १६ ॥