________________
PRESERVED AT ANHILWAD PATAN.
तस्मिन्विस्मयकारिहारिचरितः कृष्णर्षिशिष्यः पुरा चंचचंद्रकुलध्वजः समजनि श्रीनन्नसूरिः प्रभुः । उद्गीते दिवि किन्नरैर्यदमलश्लोके सुरा धुन्वते मूर्ध्नः कांचनकिंकिणीकवचितश्रोत्रं गजास्यं विना ॥ १७ ॥ संवत् १३६८ वर्षे कोलापुर्या श्रीमन्महावीरचरितं श्रीनन्नसूरिभिः सभाव्याख्याने व्याख्यातं । श्रावकमूलूवइरासक्तम् ।।
__No. 38. A Manuscript containing the Dasavaikalika and the Pakshika sutras [दशवैकालिकसूत्रम्-पाक्षिकसूत्रं च]. Dated Samvat 1352 = A D. 1296. Ends: मंगलं महाश्रीः ॥ श्रीमेदपाटदेशक्षितिराजप्राज्यराज्यधौरेयः । सीमंधर इति मंत्री श्रीकरणिक इह समस्ति पुरा ॥ १ ॥ उन्मीलद्गुरुलीलस्फूर्जितशीलप्रधानशृंगारा । नीभल इति तद्गृहिणी गृहनीतिविशारदा जाता ॥ २ ॥ तस्याः स्वीयभगिन्या अगण्यसत्पुण्यकल्पलतिकायाः । सजलजलवाहपटली दत्ता श्रीपुस्तिका शस्ता ॥ ३ ॥ थांथीसुश्राविकया वाचयितुं गच्छसकलसाधूनाम् । सेयं प्रवाच्यमाना विबुधैर्नेद्याच्चिरं कालम् ॥ ४ ॥ श्रीविक्रमत्रयोदशशतद्विपंचाशकस्य वर्षस्य । भाद्रपदाभिधमासे पक्षे -स्तिका प्रवरे ॥ ५ ॥