________________
PRESERVED AT ANHILWAD PATAN. 59 इंदं च तन्मध्यगतं सुवर्णसत्पुकं राजति वाच्यमानम् ॥ ३२॥ यावन्नभोंगणगताः शशिभानुतारा राजंति लोकतिमिरं सततं क्षिपंत्यः । यावर्द्धवः सुरगिरिश्च चकास्ति तावत् श्रीपुस्तको विजयतामिह वाच्यमानः ॥ ३३ ॥
संवत् ११८७ कार्तिकसुदि २ लिखितम् ।। भगवतीविशेषवृत्तिपुस्तकं श्रीचक्रेश्वरसूरीणां श्रे० सिद्धश्रावकस्य ॥
No. 37. Mahaviracharitra, by HENACHANDRA [महावीरचरित्रम् -हेमचन्द्रः]. Dated Samvat 1368 = A. D. 1312. - - - - - - - - - - - - - - - - - - - - - सरस्वतापदमसौ सद्वृत्तमुक्तालयः । प्रौढश्रीकुलमंदिरं विजयते कारे पागच्छांबुधि
-2/ श्चित्रं यन्न जडाशयो न च परं कुग्राहसत्वाकुलः ॥ १॥ / सत्पत्रराजी शुभपर्वरम्यः छायी सुशाखी सरलः सुवर्णः । सद्धर्मकर्मा क्षितिभृत्प्रतिष्ठवंशोस्ति वंशो भुवि धर्कटानाम् ॥ २ ॥ श्रीमदूकेशवंशेस्मिन् स्वच्छमुक्ताफलोपमाः । साधूनां हृदलंकारा बभूवुः पुरुषास्त्रयः ॥ ३ ॥ आद्यो देवधरस्तेषु दाने धाराधरः परः । प्रीणिताशेषलोकोभून्न तु जातु जडान्वितः ॥ ४ ॥ जिनालययशःसिद्धिदानपुण्यादिकर्मणाम् । समुद्धरणधौरेयो द्वितीयोऽभूत्समुद्धरः ॥ ६ ॥