________________
PRESERVED AT ANHILWAD PATAN. 45 श्रीभिल्लमालनामा हिमाद्रिरिव गोत्र शेषरो जयति । यस्य प्रजा महेशप्रिया न कैर्वर्ण्यतेऽपर्णा ॥ १॥ गंगाप्रवाह इव तत्र बभूव पुण्यभावोत्कटः कटुकराज इति प्रसिद्धः । यः सर्वदा जिनपदाश्रयणप्रवीणमाहात्म्यतः पदमदत्त भवस्य मूर्ध्नि ॥२॥ अणीलतेति (आनलदेवी) दयिताऽस्य बभूव सीतारेखास्पदं वसुमतीव सती बभौ या । व्योमावनीव च जिनत्रिपदीविविक्ता पुन्नागनंदनवती त्वमरावतीव ॥ ३ ॥ तयोरजनिषातां द्वौ सुतावासडजासडौ। सत्पथं न व्यलंघेतां धुर्यों धर्मरथस्य यौ ॥ ४ ॥ आसडः कालिदासस्य यशोदीपमदीपयत् । मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥ ५ ॥ श्रुत्वा नवरसोद्गारकिरोऽस्य कवितागिरः । राजसभ्याः कविसभाशृंगार इति यं जगुः ॥ ६ ॥ जिनस्तोत्रस्तुतीः पद्यगद्यबंधैरनेकशः । चक्रे यः कर्मकृष्णाहिजांगलीमंत्रसनिभाः ॥ ७ ॥ विवेकमंजरीनामधेयप्रकरणच्छलात् । कल्याणसिद्धये येन कृता सिद्धरसप्रपा ॥ ८ ॥
तेन सदा जिनगुणप्रगुणांतःकरणकशाऽनुशासितहृषीकावगडेन । श्रीमतासडेन महाकविनेदमुपदेशकंदलीप्रकरणं किं स्वमनीषया विरचितमित्याह । गुरूवएसाणुसारेण । गुरवोऽत्र श्रीमदभयदेवसूरिनामानस्तेषा