________________
46
EXTRACTS FROM MANUSCRIPTS मुपदशा गुरूपदेशास्तेषामनुसारोऽनुवादस्तेनेति संक्षेपार्थो व्यासार्थस्तु प्रशस्तेरवसेयः ॥ सा चेयम्श्रीवीरसेन इति वज्रमुनीश्वरस्य पट्टे बभूव दशपूर्वधरस्य पूर्वम् । शाखा य एष जिनशासनकल्पवृक्षस्कंधो दिगंतरगतीः सुषुवे चतस्रः ॥ १ ॥ शाखांकुरा गणभृतोऽत्र बभूवुरेते नागेंद्र इत्यमलकीर्तिनदीनगेंद्रः । चंद्रश्च सांद्रमतिभागथ निर्वृतिश्च विद्याधरश्च भुवि विश्रुतनामधेयः ॥ २॥ . एतेषु चंद्र इति यः प्रबभूव सरिस्तस्य प्रफुल्लगुणगच्छवनस्य गच्छे । भूयांस एव भुवनत्रयवंदनीयाः संजज्ञिरे गणधरा गुणिनो धरायाम् ॥ ३ ॥ प्रद्युम्नसरिरिति तेषु रतिप्रियेषु भेत्ता बभूव निखिलागमशास्त्रवेत्ता। येन प्रबोध्य तलपाटपुरे नरेंद्रमुत्पाटयां तलत एव कलिर्बभूव ॥ ४ ॥ श्रीचंद्रगच्छनवकैरवकलिचंद्रश्चंद्रप्रभः प्रभुरभिज्ञतमस्ततोऽभूत् । यो विश्वलोकविदितं मुदितांतरात्मा प्राभातिकी जिनपतिस्तुतिमाततान ॥ ५ ॥ तस्माद्धनेश्वर इति श्रुतपारदश्वा विश्वाभिरामचरितोऽभ्युदियाय सूरिः ।