________________
44
EXTRACTS FROM MANUSCRIPTS
Ends:
अथ ग्रंथसमाप्तौ मंगलमाह ॥
रइयं पगरणमेयं जिणपत्रयणसारसंगहेण मए ।
सम्मं समत्तविया सडंवरं दिसउ भवियाण ॥ १२४ ॥
व्याख्या -- एतत्प्रकरणं मया रचितं केन कृत्वा । जिणपवयणसारसंगहेण जिनानां प्रवचनं सिद्धांतस्तत्र सारभूतानां पंचानामपि व्रतानां चतुर्णा च धर्मागानां दानशीलतपोभावनारूपाणामपरेषां च चतुर्णा क्षांतिमार्दवार्जवसंतोषाणां संग्रहः एकत्र मीलनं जिनप्रवचनसारसंग्रहः तेन । अन्यदपि प्रकरणमुत्सवो विवाहादिः सारसंग्रहेण द्रव्योच्चयेन क्रियत इत्युक्तिलेश । किं करोत् । दिसतु ददातु । कथं । सर्म सम्यक् । किं तत् । संमत्तवियासडंबरं सम्पत्कस्य सुदेव सुगुरू सुधर्मप्रतिपत्तिरूपस्य विकाशाडंबरो विस्तरस्तं सम्यक्कविकाशाडंबरं । केभ्यः । भवियाणं भव्येभ्यः भद्रकेभ्यः इति कवेरुक्तिः । वयं तु ब्रूमः - एतत्प्रकरणं भव्येभ्यः आसडं आसडनामानं सुकवि वरं प्रधानं दिशतु कथंयतु । यतः कवयः काव्यकीर्त्तनैरेव परां प्रसिद्धिमायांतीति । किं विशिष्टमिदं प्रकरणं । सग्मत्तवि । वी प्रजनकांत्यशनखादनेषु इत्यनेन सम्पक्कं वेति समुद्दीपयति अवगमयति वा सम्पकवि किपा सिद्धमिति ।
I
अथ प्रशस्तगाथामाह ॥
सिरिभिल्लमालनिम्मलकुलसंभव कडुय रायतणएण । इय आसडेण रइयं गुरूपरसाणुसारेण ॥। १२५ ।।
व्याख्या - इति पूर्वोक्तमुपदेशकंदली नामधेयं प्रकरणं आसडेन रचितं रचनामानीतं । किंविशिष्टेन । सिरिभिल्लमालेति निर्मलं निर्दूषणं च तत्कुलं निर्मलकुलं श्रिया उपलक्षितं च तत् भिल्लमालाख्यं निर्मलकुलं च तत्तथा तस्मात्संभवति श्रीभिल्लुमालनिर्मलकुलसंभवः स चासौ कटुकराजस्तस्य तनयः पुत्रो यः स तथा तेन । तद्यथा ।