________________
PRESERVED AT ANHILWAD PATAN.
48.
वसशैवे मर्ध्नि प्रतिदिशमुदस्ताखिलतमाः क्षपायां तन्वानो रुचिमुपचितां शैत्यनिचिताम् । कलाशाली कामं कुवलयसमुल्लासरसिको मगांकः श्रीशांतिर्भवतु भवतांतिप्रशमनः ॥ २ ॥ धर्मे निर्मलभासि दासितसिताभीषुप्रभासंपदि क्षीरक्षालननिस्तुषत्रिजगतीनेत्रभ्रमं बिनाति । यस्तारातुलनां महोत्पलमहःसंदोहसंदेहकृदेहश्रीरभजद्विभुः स भवतु श्रीपार्श्वनाथः श्रिये ॥३॥ कंदाद्विनिर्गत्य मृणालमूतिर्या ब्रह्मरंध्रांबुरुहे निलीना। सा योगिनां कुंडलिनीति नाम शक्तिः प्रसूते कवितामधूनि ।। ४ ॥ आत्महितहेतवेहं सोदर्यायां विवेकमंजर्याः । वक्ष्ये श्रुतवनमल्लयां विवरणमुपदेशकन्दल्याम् ॥ ६ ॥
इह किल कलिकालगौतमश्रीमदभयदेवसूरिसुगुरूपदेशपरिशीलितसकलसर्वज्ञसिद्धांतसारः । सारस्वतज्योतिरुद्योतमानकविताडंबरः । विवेकमंजरीप्रकरणकरणप्रवणसुकृतसौरभवासितवसुंधरः।बंधुरोपेजातगृहमेधिगुणः । प्रगुगसम्यत्कानःसीमः । श्रीमदासडकविः कविसभाशृंगार इत्यपरनामधेयः स्वश्रेयःसमुदयायोपदेशकंदलीप्रकरणचिकीः श्रीमंतमिहावसर्पिण्यामाद्यमहर्तुमभिष्टुवन विहिताभीष्टसिद्धिप्रथामिमामादौ भावमंगलगाथामाह ।। तिहुयणमंगलतिलयं कयदुज्जयभाववेरिभयविलयं । केवलसिरिकुलनिलयं रिसहं पणमामि मुनिवसहं ॥१॥
व्याख्या-ऋषिगतावित्यनेन ऋषति गच्छति परमपदमिति ऋषभः। यद्वा । सर्वे गत्या ज्ञानार्थाः । ऋषति जानाति त्रैकाल्यमिति ऋषभः । ऋषिवृषिलुसिभ्यः कित् । इत्यनेन अभः । तं प्रणमामि ॥