________________
PRESERVED AT ANHILWAD PATAN.
5
तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी। उद्दामतुंबवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः ॥ ६ ॥ दुर्भिक्षे समुपस्थिते प्रलयवदीमत्वभाज्यन्यदा . भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे। योभ्युद्धत्य करांबुजन नभसा पुर्यामनैषीन्महापुर्या मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ ७ ॥ तस्माद्वज्राभिधा शाखाभूत्कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयगोचरा ॥ ८ ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः। पुष्पगुच्छायतो गच्छश्चंद्र इत्याख्ययाभवत् ॥ ९॥ धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो भव्यांभोरुहभास्करः स्मरकरिप्रोन्माथकंठीरवः । गच्छे तत्र बभूव संयमधनः कारुण्यराशियशोभद्रः सूरिरपूरि येन भुवनं शुद्धैर्यशोभिनिजैः ।। १० ॥ श्रीमन्नेमिजिनेंद्रपावितशिरस्यद्रौ स संलेखनां कृत्वादौ प्रतिपन्नवाननशनं प्रांते शुभध्यानभाक् । तिष्ठन् शांतमनास्त्रयोदशदिनान्याश्चर्यमुत्पादयबुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥ ११ ॥ श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोधसच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडंभोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनारैरातत्य स्थानकानि श्रुतिविषयसुधासारसधयांच विष्वक् ।। १२॥ . सर्वग्रंथरहस्यरत्नमुकुरः कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमांगणाहस्करः ।