________________
EXTRACTS FROM MANUSCRIPTS
No. 2. Mahaviracharita by HEMACHANDRA [त्रिषष्टिशलाकापुरुष
चरित्रान्तर्गतश्रीमहावीरचरितम् - हेमचन्द्रः ] .
Leaves 1 to 201; 28 inches long, 2 inches broad.
Ends:
किंचित्कीत्तितमीदृशं ननु मया स्वान्योपकारेच्छया ॥ २८९ ॥
इत्याचार्यश्रीहेमचंद्र विरचिते त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरनिर्वाणगमनवर्णनो नाम त्रयोदशः सर्गः ॥
समाप्तं चेदं दशमं पर्व ॥
परिपूर्णमिदं त्रिषष्टिशलाकापुरुषचरितं महाकाव्यमिति ॥ शिष्यो जंबुमहामुनेः प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रबाहुरिव दौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलि श्रीस्थूलभद्रायः ॥ १ ॥
वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः ।
नाम्ना महागिरिरिति स्थिरतागिरींद्रो ज्येष्ठांतिषत्समजनिष्ट विशिष्टलब्धिः ॥२॥ शिष्योऽन्यो दशपूर्व भृन्मुनिवृषो नाम्ना सुहस्तीत्यरूट् यत्पादांबुजसेवनात्समुदिते राज्ये प्रबोधर्द्धिकः । चक्रे संप्रतिपार्थिवः प्रतिपुरप्रामाकरं भारतेऽस्मिन्नर्द्धे जिनचैत्यमंडितमिलापृष्ठं समंतादपि ॥ ३ ॥ अजनि सुस्थितसुप्रतिबुद्ध इत्यभिधयार्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरांतिषद्भवमहातरुभंजनकुंजरः ॥ ४ ॥ महर्षिसंसेवितपादसन्निधेः प्रचारभांगा लवणोदसागरम् II महाभ्गणः कोटिक इत्यभूत्ततो गंगाप्रवाहो हिमवगिरेरिव ॥ ५ ॥