________________
EXTRACTS FROM MANUSCRIPTS
चारित्रादिकरत्नरोहणगिारेः श्मा पावयन् धर्मराट् सेनानीऍणसेन सूरिरभवच्छिष्यस्तदीयस्ततः ॥ १३ ॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृजंगमः स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा। कृत्वा स्थानकवृत्तिशांतिचरिते प्राप्तः प्रसिद्धि परां सूरि रितपःप्रभाववसतिः श्रीदेवचंद्रोभवत् ॥ १४ ॥ आचार्यो हेमचंद्रोभूत्तत्पादांभोजषट्पदः। तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥१६॥ जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापरांतं कुरून्य सिंधूनन्यतमांश्च दुर्गविषयान्दोवीर्यशक्त्या हरिः। चौलुक्यः परमार्हतो विनयवान् श्रीमूलराजान्वयी तं नत्वोत कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ १६ ॥ पापतिमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं तत्सर्वं निनिमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामिन्नुा निषिद्धं धनमसुतमृतस्याथ मुक्तं तथार्हचैत्यैरुत्तंसिता भरभवमिति समः संप्रतेः संप्रतीह ॥ १७ ॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याच्या सांगं व्याकरणं सवृत्ति सुगमं चक्रुर्भवतः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयच्छंदालंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥१८॥ लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः। मादृग्जनस्य परिबोधकृते - - - ..... . पुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ १९॥ ...