________________
172
EXTRACTS FROM MSS.
समंदरायपि च मित्रती रविं गुरू तथान्यौ बलदेवमित्रकौ ।
विवृद्धमानाय विरत्नसयुंत: [विवर्धमानत्रिकरत्नसंयुतः ] श्रियान्वितः सिंहबलश्च वीरवत् ॥ २६ ॥
स पद्मसेनो गुणपद्मखंडभृत् गुणामणीर्व्याघ्रपदादिहस्तकः | स नागहस्ती जितदंडनामभृ
त्स नंदिषेणः प्रभुदीपसेनकः || २७ ।। तपोधन: श्रीधरसेननामकः
सुधर्मसेनोपि. च सिंहसेनकः | सुनंदिषेणेश्वरसेनकौ प्रभू सुनंदिषेणाभयसेननामकौ ॥ २८ ॥
स सिद्धसेनोभयभीमसेनको गुरू परौ तौ जिनशांतिषेणकौ | अखंडषट्खंडमखंडितस्थितिः समस्तसिद्धांतमधत्त योऽर्थतः ॥ २९ ॥ दधार कर्मप्रकृतिं श्रुतिं च यो
जिताक्षवृत्तिर्जयसेनसद्गुरुः ।
प्रसिद्धवैयाकरणप्रभाववा
नशेषराद्धांतसमुद्रपारगः ॥ ३० ॥ तदीयशिष्योऽमितसेन सद्गुरुः पवित्र पुन्ना गणामणी गणी |