________________
PURCHASED FOR GOVERNMENT.
171
तथैव च श्रेणिकपूर्वभूभुजः प्रकृत्य कल्याणमहं सहस्रजाः। प्रजग्मुरिंद्राश्च सुरैर्यथायथं प्रयाचमाना जिनबोधिर्थिनः ॥ २० ॥ ततश्च लोकः प्रतिवर्षमादरात्पासिद्धदीपालिकयात्र भारते । समुद्यतः पूजयितुं जिनेश्वरं जिनेंद्रनिर्वाणविभूतिभक्तिभाक् ॥ २१ ॥ त्रयः क्रमाकेवलिनो जिनात्परे द्विषष्टिवर्षांतरभाविनोऽभवन् । ततः परे पंच समस्तपूर्विणस्तपोधनां वर्षशतांतरे गताः ॥ २२ ॥ त्र्यशीतिके वर्षशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । इये च विशेंगभृतोपि पंच ते शते च साष्टादशके चतुर्मुनिः ॥ २३ ।। गुरुः सुभद्रो जयभद्रनामा परो यशोबाहुरनंतरस्ततः । महार्हलोहार्यगुरुश्च ये दधुः प्रसिद्धमाचारमहांगमत्र ते ॥ २४ ।। महातपोवृद्धिनयंधरःश्रुतामृषिश्रुतिं गुप्तपदादिकां दधन् । मुनीश्वरोऽन्यः शिवगुप्तसंज्ञको गुणैः स्वमर्हद्वलिरप्यधात्पदम् ॥ २५ ॥