________________
370
EXTRACTS FROM MSS.
विहत्य पूज्योपि महीं महीयसां महामुनिर्मोचितकर्मबंधनः । इयाय मोक्षं जितशत्रुकेवली निरंतसौख्यप्रतिबद्धमक्षयम् ॥ १४ ॥ जिनेंद्रवीरोपि विबोध्य संततं समंततो भव्यसमूहसंततिम् । प्रपद्य पावानगरी गरीयसीं मनोहरोद्यानवरे तदीयके ॥ १५ ॥ चतुर्थकाले ऽर्धचतुर्थमासकैविहीनताविश्वतुरब्दशेषके। स कार्तिके स्वातिषु कृष्णभूतसुप्रभातसंध्यासमये स्वभावतः ॥ १६ ॥ अघातकर्माणि निरुद्धयोगको विधूय घातींधनवद्विबंधनः । विबंधनस्थानमवाप शंकरो निरंतरायोरुसुखानुबंधनम् ॥ १७॥ स पंचकल्याणमहामहेश्वरः प्रसिद्धनिर्वाणमदे चतुर्विधैः । शरीरपूजाविधिना विधानतः सुरैः समभ्यर्च्यत सिद्धशासनः ॥ १८ ॥ ज्वलत्प्रदीपालिकया प्रवृद्धया सुरासुरैर्दीपितया प्रदीप्तया । तदा स्म पावानगरी समंततः प्रदीपिताकाशतला प्रकाशते ॥ १९ ॥