________________
PURCIIASED FOR GOVERNMENT.
169
यशोदयायां सुतया यशोदया पवित्रया वीरविवाहमंगलम् । अनेककन्यापरिवारयाऽऽरुहसमीक्षितुं तुंगमनोरथं तदा ।। ८ ॥ स्थिते ऽथ नाथे तपसि स्वयंभुवि प्रजातकैवल्यविशाललोचने । जगद्विभूत्यै विहरत्यपि क्षिति क्षितिं विहाय स्थितांस्तपस्ययम् ।। ९ ।। अमुष्य याताद्य तपोवलान्मुनेरवाप्तकैवल्यफला मनुष्यता । मनुष्यभावो हि महाफलं भवे भवेदयं प्राप्तफलस्तपःफलात् ।। १० ॥ इतीरितेयं हरिवंशसत्कथा समासतः श्रेणिक लोकविश्रुता । त्रिषष्टिसंख्यानपुराणपद्धतिप्रदेशसंबंधवती श्रियेऽस्तु ते ॥ ११ ॥ सुगौतमात्पुण्यपुराणपद्धति स पार्थिवैः श्रेणिकपार्थिवस्तदा । सुदृष्टिराकर्ण्य सकर्णतां गतो गतः पुरं प्रीतमतिः कृतानतिः ॥ १२ ॥ चतुर्णिकायामरखेचरादयो जिन परीत्य प्रणिपत्य भक्तितः । यथायथं जग्मुरजन्मकांक्षिणः प्रसिद्धसत्कर्मकथानुरागिणः ॥ १३ ॥ १. अशोकवस्यामिति पाठः २. जितशत्रुः.
22