________________
168
EXTRACTS FROM MSS.
कलिंगराजस्य नृपस्य देहजा जरत्कुमारस्य वधूर्वधूत्तमा । सुखेन लेभे जगत: सुखावहं वसुध्वजं राजकुलध्वजं सुतम् ॥ २ ॥ स तत्र यूनि व्यवसायिनि क्षितिं जरत्कुमारे हरिवंशशेखरे । निधाय यातस्तपसे वनं सतां कुलवतं तीव्रतपोनिषेवणम् ॥ ३ ॥ सुतोऽभवच्चंद्र इव प्रजाप्रियो वसुध्वजाच्चासुवसुर्वसूपमः | सभीमवर्मास्य कलिंगपालकस्तदन्वये तीयुरनेकशो नृपाः || ४ ||
कपिष्ठनामान्वयभूषणस्त्वभूदजातशत्रुस्तनयस्ततोऽभवत् । स शत्रु सेनोऽस्य जितारिरंगजस्वदंगजोऽयं जितशत्रुरीश्वरः || ५ || भवान्न किं श्रेणिक वेत्ति भूपति नृपेंद्र सिद्धार्थ कनीयसी पतिम् | इमं प्रसिद्धं जितशत्रुमाख्यया प्रतापवतं जितशत्रु मंडलम् ॥ ६ ॥ जिनेंद्रवीरस्य समुद्भवेोत्सवे
तदागतः कुंडपुरं सुहद्वृतः । सुपूजित: कुंडपुरस्य भूभृता नृपोऽयमाखंडलतुल्यविक्रमः ॥ ७ ॥