________________
PURCHASED FOR GOVERNMENT.
जिनेंद्र सच्छाशनवत्सलात्मना
तपोभूता वर्षशताधिजीविना ॥ ३१ ॥
सुशास्त्रदानेन वदान्यताऽमुना वदान्यमुख्येन भुवि प्रकाशिता । तदप्रजो धर्मसहोदयः शमी समग्रधधर्म इवान्तविग्रहः ॥ ३२ ॥
तपोमयीं कीर्तिमशेषदिक्षु यः क्षिपन् बभौ कीर्त्तितकीर्तिषेणभाः । तदग्रशिष्येण शिवाय सौख्यभागरिष्टनेमीश्वरभक्तिभारिणा ॥ ३३ ॥ स्वशक्तिभाजा जिनसेन सूरिणा धियाल्पयोक्ता हरिवंशपद्धतिः । यत्र किंचिद्रचितं प्रमादतः परस्परव्याहृतिदोषदूषितम् ॥ ३४ ॥ तदप्रमादास्तु पुराणकोविदाः सृजंतु जंतुस्थितिशक्तिवेदिनः ।
प्रशस्तवंशो हरिवंशपर्वतः
क मे मतिः काल्पतराल्पशक्तिका || ३५ ॥
अनेन पुण्यप्रभवस्तु केवलं जिनेंद्रवंशस्तवनेन वाञ्छितः |
न काव्यबंधव्यसनानुबंधतो
न कीर्त्तिसंतान महामनीषया || ३६ ||
न काव्यगर्वेण न वान्यवीक्षया
जिनस्य भक्त्यैव कृता कृतिर्मया ।
173