________________
PURCHASED FOR GOVERNMENT.
श्रीकर्मदाहविधिबंधुरसिद्ध सेवां नानागुणौघगणनाथसमर्चनं च । श्रीपार्श्वनाथवरकाव्यसुपंजिकां च
यः संचकार शुभचंद्रयतींद्रचंद्रः ॥ ७५ ॥ उद्यापनमदीपष्ट पल्योपमविधेश्व यः | चारित्रशुद्धितपसश्चतुस्त्रिद्वादशात्मनः || ७६ ॥
संशयवदनविदारणमपशब्दसुखंडनं परं तर्कम् | सतत्त्वनिर्णयं वरस्त्ररूपसंबोधिनीं वृत्तिम् || ७७ ॥ अध्यात्मपद्यवृत्तिं सर्वार्था पूर्व सर्वतोभद्रम् |
योऽकृत सद्व्याकरणं चिंतामणिनामधेयं च ॥ ७८ ॥
159
कृता येनांगप्रज्ञप्तिः सर्वागार्थप्ररूपिका ।
स्तोत्राणि च पवित्राणि षड्वादा: श्रीजिनेशिनाम् || ७९ ॥ तेन श्रीशुभ चंद्रदेवविदुषा सत्पांडवानां परं दीप्यद्वंशविभूषणं शुभभरभ्राजिष्णु शोभाकरम् | शुंभद्भारतनामनिर्मलगुणं सच्छन्दचिंतामणि पुष्यत्पुण्यपुराणमत्र सुकरं चाकारि प्रीत्या महत् ॥ ८० ॥ शिष्यस्तस्य समृद्धिबुद्धिविशदो यस्तर्कत्रेदी थ[प]रो वैराग्यादिविशुद्धिवृंदजनक : श्रीपालवर्णी महान् । संशोध्या खिल पुस्तकं वरगुणं सत्पांडवानामिदं तेनालेखि पुराणमर्थनिकरं पूर्वं वरे पुस्तके || ८१ ॥ श्री पालवर्णिना येनाकारि शास्त्रार्थसंग्रहे । साहाय्यं स चिरं जीयावर विद्याविभूषणः ॥ ८२ ॥ येति पति पांडवगुणं संलेखयंत्यादरालक्ष्मीराज्यनराधिपत्यसुरता चक्रित्वशक्रे शिनाम् ।