________________
158
EXTRACTS FROM MSS.
वरतपश्चरणोद्यतमानसो भवभयाहिखगेट क्षितिवत्क्षमी ॥ ६८ ॥ चिद्रूपवेत्ता चतुरचिरंतनविभूषणचर्चितपादपद्मकः । सूरिश्च चंद्रादिचयैश्विनोदु वै चारित्रशुद्धं [द्धिं] खलु नः प्रसिद्धिदम् [दाम्।। ६९ ॥ विजयकीर्तियतिर्मुदितात्मको जितनतान्यमनःसुगतैः स्तुतः | अवतु जैनमतं सुमतो मतो
नृपतिभिर्भवतो भवतो विभुः ॥ ७० ॥ पट्टे तस्य गुणांबुधितधरो धीमान् गरीयान् वरः श्रीमच्छीशुभचंद्र एष विदितो वादीभसिंहो महान् । तेनेदं चरितं विचारसुकरं चाकारि चंचद्रुचा पांडोः श्रीशुभसिद्धिसातजनकं सिद्धयै सुतानां सदा ।।७१॥
चंद्रनाथचरितं चरितार्थ पद्मनाभत्ररितं शुभचंद्रम् । मन्मथस्य महिमानमतंद्रो
जीवकस्य चरितं च चकार ।। ७२॥ चंदनायाः कथा येन दृत्वा [ब्धा ] नांदीश्वरी तथा । आशाधरकृतार्चाया वृत्ति( :) सद्वृत्तिशालिनी ।। ७३ ॥
त्रिंशचतुर्विंशतिपूजनं च सद्वृत्तसिद्धार्चनमाव्यधत्त । सारस्वतीयार्चनमत्र शुद्धं चिंतामणीयार्चनमुच्चरिष्णुः ॥ ७४ ॥