________________
PURCHASED FOR GOVERNMENT.
157
भद्रबाहुर्महाभद्रो महाबाहुर्महातपाः । स जीयात्सकलं येन श्रुतं ज्ञातं कलौ विदा ।। १२ ।। विशाखो विश्रुता शाखा सुशाखो यस्य पातु माम् । स भूतले मिलन्मौलिहस्तभूलोकसंस्तुतः ।। १३ ।। कुंदकुंदो गणी येनोज्जयंतगिरिमस्तके । सोवतावादिता ब्राह्मी पाषाणघटिता कलौ ॥ १४ ॥ समंतभद्रो भद्रार्थो भातु भारतभूषणः । देवागमेन येनात्र व्यक्तो देवागमः कृतः ॥ १५ ॥ पूज्यपादः सदा पूज्यपादः पूज्यैः पुनातु माम् । व्याकरणार्णवो येन तीर्णो विस्तीर्णसद्गुणः ।। १६ ।। अकलंकोऽकलंकः स कलौ कलयतु श्रुतम् । पादेन ताडिता येन मायादेवी घटस्थिता ॥ १७॥ जिनसेनयति याज्जिनसेनः कृतं वरम् । पुराणपुरुषाख्यार्थपुराणं येन धीमता ।। १८ ।। गुणभद्रभदंतोऽत्र भगवान् भातु भूतले । पुराणाद्री प्रकाशार्थ येन सूर्यायितं लघु ॥ १९ ।। तत्पुराणार्थमालोक्य धृत्वा सारस्वतं श्रुतम् । मानसे पांडवानां हि पुराणं भारतं त्रुवे ॥ २० ॥ च°–श्रीमूलसंघे ऽजनि पद्मनंदी
तत्पदृधारी सकलादिकीर्तिः । कीर्तिः कृता येन च मर्त्यलोके शास्त्रार्थकी सकलापि चित्रा ॥ ६७॥ भुवनकीर्तिरभू वनाद्भुतै(वनभासनचारुमतिः स्तुतः ।