________________
156
EXTRACTS FROM MSS.
प्रमाणादर्थ संसिद्धिस्तदाभासाद्विपर्ययः ।
इति वक्ष्येतयोर्लक्ष्म सिद्धमल्पं लघीयसः ॥ १ ॥
-
च० – अकलंकशशांकैर्यत्प्रकटीकृत मखिलमाननिभनिकरम् । तत्संक्षिप्तं सूारेभिरुरुमतिभिर्व्यक्तमेतेन ॥ १॥ इति परीक्षामुखलघुवृत्तौ प्रमाणाद्याभाससमुद्देशः षष्ठः परिच्छेदः ।
श्रीमान्विजयनामाभूदग्रणीर्गुणशालिनाम् । बदरीपालवंशालिब्योमधुमणिरूर्जितः || १ || तदीयपत्नी भुवि विश्रुतासीनाणांबनामा गुणशीलधामा । यां रेवतीति प्रथितांबिकेति प्रभावतीति प्रवदंति संतः || २ || तस्यामभूद्विश्वजनीनवृत्ति
र्दानांबुवाहो भुवि हीरपाख्यः | स्त्रगोत्रविस्तारनभोंशुमाली सम्यक्त्वरत्नाभरणार्चितांगः || ३ || तस्योपरोधवशतो विशदोरुकीर्तेर्माणिक्यनंदिकृतशास्त्रमगाधबोधम् |
स्पष्टीकृतं कतिपयैर्वचनैरुदारैबलप्रबोध धिकरमेतदनंतवीर्यैः ॥ ४ ॥
इति प्रमेयरत्नमालापरनामधेयपरीक्षामुखवृत्तिः समाप्ता । No. 1452.
-
पाण्डवपुराणम् - शुभचन्द्रः ।
आ० – सिद्धं सिद्धार्थसर्वस्वं सिद्धिदं सिद्धसत्पदम् | प्रमाणनय संसिद्धं सर्वज्ञं नौमि सिद्धये ॥ १ ॥ ---