________________
160
EXTRACTS FROM MSS.
भुक्त्वा भोगमिदं पुराणमखिलं संबोभुवत्युन्नता मुक्तौ ते भवभीमनिम्नजलधि संतीर्य सातं गताः ।।८३ ॥ अर्हतो ये जिनेंद्रा वरवचनचयैः प्रीणयंतः सुभव्यान् सिद्धाः सिद्धिं समृद्धिं ददत इह शिवं साधवः सिद्धिशुद्धाः। दृक्सद्बोधं सुवृत्तं जिनवरवचनं तीर्थराड्सोक्तधर्मस्तत्सञ्चैत्यानि रम्या जिनवरनिलयाः संतु नस्ते सुसिद्धयै॥८४ यावचंद्रार्कताराः सुरपतिसदनं तोयधिः शुद्धधर्मो यावद्भूगर्भदेवाः सुरनिलयगिरिदेवगंगादिनद्यः । यावत्संकल्पवृक्षास्त्रिभुवनमहिता भारते वै जगत्यां तावत्स्थेयात्पुराणं शुभशतजनकं भारतं पांडवानाम् ।। ८५ ॥ श्रीमद्विक्रमभूपतेईिकहते स्पष्टाष्टसंख्ये शते रम्येष्टाधिकवत्सरे १६०८ सुखकरे भाद्रे द्वितीयातिथौ ।। श्रीमद्वाग्वरनीवृतीदमतुले श्रीशाकवाटे पुरे
श्रीमच्छीपुरुषाभिधे विरचितं स्थयात्पुराणं चिरम्।। ८६ इति श्रीपांडवपुराणे भारतनाम्नि भ. श्रीशुभचंद्रमणीते ब्रह्मश्रीपालसाहाय्यसापेक्षे पांडवोपसर्गसहनकेवलोत्पत्तिमुक्तिसर्वार्थसिद्धिगमनवर्णनं नाम पंचविंशतितमं पर्व ॥ २५ ॥ संवत् १६५३ वर्षे सहसि मासे कृष्णपक्षे त्रयोदश्यां तिथौ भौमवासरे श्रीआदिनाथचैत्यालये श्रीमूलसंघे नंद्याम्नाये बलात्कारगणे सरस्वतीगच्छे श्रीकुंदकदाचार्यान्वये भट्टारकश्रीपद्मनंदिदेवास्तत्पट्टे भ. श्रीशुभचंद्रदेवास्तत्पड़े भ° जिनचंद्रदेवास्तत्पड़े भ° श्रीप्रभाचंद्रदेवा मंडलाचार्यश्रीधर्मकीर्तिदेवास्तत्पढे भ° विशालकीत्तिदेवास्तत्पट्टे भ° लक्ष्मीचंद्रदेवास्तत्पट्टे भ° सहस्रीत्तिदेवास्तत्पढे मंडलाचार्यश्रीनेमिचंद्रस्तस्मै सत्पात्राय जिनगृहवासिनी श्राविका रुषी तया इदं शास्त्रं पांडवपुराणाख्यं ज्ञानावरणीयकर्मक्षयनिमित्तं लिखाप्य प्रदत्तम् ।।