________________
00
EXTRACTS FROM MSS.
उत्फुल्लमल्लीप्रतिमल्लकांतिः कीर्तिभ्रमंती भुवनेषु यस्य । श्रिया समं सौहदकांक्षयैव मुष्णाति विष्णोरपि कृष्णभावम् ॥ ८ ॥ विश्वत्रयप्रथितकीर्तिलतस्य तस्य शिष्यः प्रशस्यमहिमाभयदेवमूरिः । काव्यं जयंतविजयं रचयांचकार
सारस्वतप्रसमरप्रतिभाविलासः ।। ९ ॥ दिकरिकुलगिरिदिनकर परिमितविक्रमनरेश्वरसमायाम् । द्वाविंशतिशतमान शास्त्रमिदं निर्मितं जयतु ।। १० ॥
No. 1251. जिनशतकं सटीकम्-मू जम्बूः। टी शम्बसाधुः। टी आ०–निष्क्रांती कृतपंचमुष्टिककचोत्पाटस्य ये संस्थिताः मू आ-श्रीमद्भिः स्वैर्महोभिर्भुवनमविभुवत्तापयत्येष शश्वत् मूच-युष्मान्मान्याअगस्याननवनजशया वागसौ द्राग्विधे
___यात् ।। २५ ॥ टीच-युष्मान् दैन्यशृन्यान्विधेयादिति ।। २५ ।।
इति शंबसाधुविरचितायां जिनशतकपंजिकायां वाग्वर्णनो नाम चतुर्थपरिच्छेदः समाप्तः ॥
जंबूर्नाम गुरुर्गुरूत्तमगुणोऽभूचंद्रगच्छान्वये विद्वत्संसदि लब्धगौरवपदः साधुक्रियासूद्यतः । किं वा तस्य निगद्यते मतिगुणो यस्येदृशी निर्गता सुश्लिष्टा पदसंधिभिः सुघटितैः स्पष्टाक्षराली मुखात् ।। १॥