________________
PURCHASED FOR GOVERNMENT,
91
सत्कृतस्यास्य शास्त्रस्य गंभीरार्थस्य मंदधीः । मादृशः कुरुते वृत्तिं किमस्मादस्ति दुष्करम् ।। २ ।। अशक्यानुष्टानमिति भावः । किं त्वेषा बालकेनेव सन्मार्गेण यियासुना ।
अभ्यास शक्यभावेपि क्रियते केवलं मया ॥ ३ ॥ ततश्च । ख्यातो भट्टिकदेशसंहि[धि]षु सदाभूत्पार्श्वनागाभिधः श्राद्धस्तस्य सुतोऽत्र मल्हन इति ख्याति मतः सर्वतः । तत्पुत्रेण च दुर्गकेण सुधिया प्रोत्साहितेनादराच्छीनागेंद्र कुलोद्भवेन मुनिना सांबेन वृत्तिः कृता ।। ४ ।। यदत्र मात्रादिभिरर्थतो वा मया विहीनं विहितं कथंचन । मनीषिभिस्तत्परिशोधनीयं परोपकाराय सतां हि जीवितम् ।।५।। शरदां सपंचविंशे शतदशके १०२५ स्वातिभे च रविवारे। विवरणमिदं समाप्नं वैशाखसितत्रयोदश्याम् ।। ६ ॥ लीलावेशितलोचनें [नां]बुजयुगं या पुस्तकं वाचयंत्यालोच्येव सदम[समर्म] वस्तु दधती स्मेरं मुखं राजते । भक्त्या नम्रशिरोवतंसकपतत्पुष्पार्चितांदिया
देवस्त्रीभिरसौ सदा विजयतां वाग्देवता विश्रुता ॥ ७ ॥ इति श्रीजिनशतकपंजिकायां प्रशस्तिरियं समाप्ता सूत्रवृत्तिसमन्विता| ग्रंथाग्रं श्लोकसंख्यया १५५० ग्रंथकारेण कृतमस्ति ।। शुभं भवतु ।। संवत् १६४१ वर्षे भाद्रवा सुदि ४ शनी ॥
No. 1256. तीर्थकल्पः-जिनप्रभसूरिः । आ०-दिवश्रीपुंडरीकाख्यभूभृच्छिखरशेखरम् ।
अलंकरिष्णुः प्रासादं श्रिनाभेयः श्रियेस्तु वः ॥ १॥