________________
L'URCHASED OR GOVERNMENT.
89
स श्रीसूरिजिनेश्वरस्त्रिपथगापाथःप्रवाहैरिव स्वैरं यस्य यशोभरैत्रिजगतः पावित्र्यमासूत्रितम्।। १।।
अभवदभयदेवः सूरिरस्मात्स यस्य प्रभुरभजत तोषं स्तंभने पार्श्वनाथः । प्रकटितविकटार्थी संघसाम्राज्य वृद्धये
व्यधित निधिसमानां यश्च वृत्तिं नवांग्याः।। २ ॥ तच्छिप्यो जिनवल्लभः प्रभुरभूद्विश्वंभराभामिनीभास्वद्भालललामकोमलय शस्तोमः शमारामभूः | यस्य श्रीनरवर्मभूपतिशिरःकोटीररत्नांकुरज्योतिर्जालजलैरपुष्यत सदा पादारविंदद्वयी ।। ३ ।। कश्मीरानपहाय संततहिमव्यासंगवैराग्यत: प्रोन्मील द्गणसंपदा परिचिते यस्यास्यपंकेरुहे । सांद्रामोदतरंगिता भगवती वाग्देवता तस्थुषी धारालामलभव्यकाव्यरचनाव्याजादनृत्यचिरम् ।। ४ ॥ तुंगस्तदंहिकमले जिनशेखराह्नः सूरिस्तपःप्रशमर्मितकाय यष्टिः । जिग्ये जगत्रयजयप्रयतोपि येन
वीरव्रतं कलयता रतिजीवितेशः ।। ५ ।। वैराग्यं याति रागे भजति विधुरतां क्रोध- - - - -
--------
---
-------------
-
--प्येषां जयाशां निभृतमपस्तं मोहराजेन दूरम् ।। ६ ॥ प्रगुणितकरुणः क्षमया विराजितश्चारुविग्रहस्तदनु । अजनि वशीकृतविषयग्रामः पछंदुमुनिराजः ।। ७ ॥
12