________________
PURCHASED FOR GOVERNMENT.
कोर्थः । यवनव्यतिरिक्तोक्तजातकताजकफलमित्यर्थः । तं न कीर्तयेत् । तर्हि केनोक्तं फलं कीर्तयेदित्यत्राह | दृष्टिरिति | दृष्ट्यादि सर्वमेतहलीलसंज्ञं यवनसंज्ञं यवनोक्तमित्यर्थः । दलील इति भाषया यवनोक्तलक्षकम् | यद्वा । दलील इति हिल्लाजोपलक्षकम् । एतत् होराशास्नाद्विसंवादि ।- - - - -पुण्यसहम तत्पती पर्वलग्नतत्पती क्रूरविशुद्धया द्रष्टव्यावित्यर्थः । अमुना प्रकारेणैषां चतुणी मध्ये यस्यैव संभवः तग्राह्यं तद्धिल्लाजसंज्ञं भवतीत्यर्थः । हिल्लाजशब्देन शरीरमुच्यते । चतुर्णी मध्ये यदा एकस्यापि हिल्लाजसंभवो नास्ति तदा तज्जन्मस्थं अल्पजीवितं स्यादित्यर्थः।- - - - - -अत्रोदाहरणम् । चतुर्दशशतचतुःषष्टिवर्षाधिके शालिवाहन शके १४६४ जाते कार्तिक शुद्ध षष्ठी शनी सूर्योदयाद्तघटी एकोनपंचाशत् घटी ४९ नवपलानि ९। श्रीमत्समस्तपृथ्वीमंडलाधिप अकबरसाहस्य जन्मकालः |...वामनजातके दर्शितः । यथा । रसांगाष्टशरा पंच- - - - - - - -संज्ञातंत्रे दर्शिताः आद्याः कुजाद्या रवितोपि मध्यमाः...
इति श्रीक्षीरसागरोपनामकश्रीपतिभट्टांगजरामेश्वरविरचितायां हिलाजव्याख्यायां चूडामण्यभिधायामायुर्दा यप्रकृतिः समाप्ता ।। १ ।।
च-इति श्रीरामेश्वरविरचितायां हिल्लाजव्याख्यायां चुमण्यभिधायां प्रभायुर्दायः समाप्तः ।
No. 1029.
होरामकरन्दः-गुणाकरः । आ°-उदयशैलभुजंगफणामणि
दिवसभुरुहनूतनपल्लवः । दिशतु नः स गिरं महसां निधि[सरसीसरसीरुहमुल्लसन् ||१||