________________
EXT RACTS FROM Mss.
जयति विबुधशंसन्मानसावासहंसी वचनमयशरीरा भारती हारगौरा । तदनु च विजयंते सूर्यमुख्या ग्रहेंद्रास्तदपि च पदपद्मद्वंद्वमस्मद्गुरूणाम् ।।२।। यो बादरायणवशिष्टपराशराद्यै
राविधिविरचितो विविधांस्तदर्थान् । विज्ञाय सम्यगधुना वयमप्यविज्ञा
यत्कुर्महे किमपि भोत्र गुणास्तदीयाः ॥३॥ जडात्मके मद्धृदयेंदुविवे संमूर्छिता मोहमहांधकारम् । निरस्य शश्वन्मुदमावहंत्यो जयंति रम्या मिहिरस्य गावः।।४| होरोत्पले राजमृगांकगोभिर्विकासिते सत्यमलाभिरत्र | पुष्पंधयस्येव ममानुगीतिरियं सतां श्रोतृसुखाय किं तु ॥५॥ स्वतातपादांबुजचंचरीको गुणाकरः संप्रतिमुच्चिनोति । हृद्यं हि होरामकरंदमाद्यानवद्यहोरासुमनश्चयेभ्यः ।। ६ ॥ च-श्रीनारायणसंज्ञको द्विजवरो विद्यावधूवल्लभः
श्रीतो येन विधिः कलौ कृतयुगोत्कर्ष परं प्रापितः । ग्रामोऽवंतिविभूषणैकतिलकः खजूरनामाह्वय
स्तस्मिन्सद्गुणकेलिभूसुर[भूषण]मभूत्कौंडिन्यगोत्रोद्भवः ॥१६॥ तस्मादभूदमलसद्गुणरत्नसिंधोः श्रीश्रीपतिर्गणककैरव शीतरश्मिः । गोचक्रवालममलं सुमनश्चकोरा यस्यानिशं श्रवणचंचुपुटः पिबंति।।१७
श्रीब्रह्मपुत्रार्यभटोत्पलाख्यवराहलल्लेषु दिवं गतेषु । निराश्रयेयं समवेक्ष्य वाणी विलासवासं रचयांचकार ॥१८॥
दृष्ट्वा यद्यशसेंदुपादमहसा शुक्लं त्रिलोकीतलं । ज्योत्स्नापानधिया धयंति परितो मुग्धाश्चकोरांगनाः ।