________________
EXTRACTS FROM MSS.
No. 1026.
हिल्लाजव्याख्या-रामेश्वरः । आ° रामो भैरवपद्युगं गुरुवरं तातं तथा श्रीपतिं
गोविंदाख्यगुरुं प्रणम्य कृतिनं दैवज्ञचूडामणिम् । योऽकार्षीदुरुसंहिताब्धितरणिं पीयूषधाराभिधां चूडामण्यभिधां विचार्य कुरुते हिल्लाजटीकां कृती ॥ १॥ सृष्टयादौ कमलोद्भवेन गदितं सूर्य प्रति प्रांशु तच्छापान्म्लेच्छगतोऽथ रोमकपुरे म्लेच्छेषु यदिष्टवान् । शास्त्रं ताजिक ततस्तदभिधं पश्चात्सुपद्येरितं श्रीमद्रोमककेन तन्मतमभूत्सत्प्रत्ययं तनतः ।। २॥ खिंदाख्यः कृतवान्सुपद्यललितर्हिल्लाजसंज्ञं शुभं ज्ञात्वा रोमकजं पुरान्यपठितं जन्माब्दपृच्छात्मकम् । तन्नटे त्वधुना तथापि च तदायुयपद्यात्सतो दुर्बोधात्सुजनस्य बोधविधये स्पष्टं तु कर्तुं सुधीः ।। ३ ।।
ननु हिल्लाजस्य आयुर्दायाद्यर्थ प्रवृत्तिः स च जातकपद्धतिरेव सिद्धम् । एवं सति हिल्लाजस्याऽप्रवृत्तिविषयत्वात् । तत्र तद्विवरणकर्तुः सुतरां प्रवृत्तिर्लघीयसीतिचेन्न । जातकपद्धत्युक्तायुर्दायस्याऽघटकत्वात् । तथा च हिल्लाजभाष्ये ।
ताजकजातक जनितं जन्मफलं कीर्तयेन शकजातेः। तस्मात्पद्धतिमार्ग स्फुटं न घटते फलं तेषाम् ।। १ ।। दृष्टिमैत्रं वा दृग्ग्रहवीर्य पंचवर्गिकापूर्वम् ।
सर्व दलीलसंज्ञं होराशास्त्राद्विसंवादी ।। इति । पर्वपद्यस्यायं भावः । यस्मात्पद्धतिमार्गजनितं फलं स्फट न घटते तस्माल्लोकानां शकजातेस्ताजकजातकजनितं जन्मफलम् ।