________________
EXTRACTS FROM M88.
यः सप्तवारविहितैर्वर (दप्रसा)दा(पासाद)मंत्रसुपुरश्चरणैर्महे शात् । आसप्तमाद्वरमगानिजवंशजातविच्छेदशून्यविमलाखिलशास्त्रबोधम् ।। १७ ।। विधिवदनुष्ठितकर्मा धर्माख्यमुधीस्तुसंस्फुरद्धर्मा । जनयांबभूव तनयानारायणपर्वतेशरामाख्यान् ॥ १८ ॥ पदक्रमपदाक्षरक्रमजटाक्रमारोहणावरोहविषमक्रमाक्रममुखावधानाधुनिम् [नाध्वनि । परिक्रमणचक्रवर्त्यभिधयाष्टदिगुढया चचार बहुशः क्षितौ द्विजरथेन नारायणः ।। १९ ।। जित्वा रामावधानिप्रमुखमुरुमरुद्वेगवद्वेदचर्चागोष्ठया नारायणार्यः सदसि बुधशतैः श्लाघ्यमानावदानः । संतुष्टाद्धर्मभूपादलभत शिबिकां चामरञ्छत्रपूर्व गर्वाखर्वावधानीश्वरसरभघटागंडभेरुंडचिह्नम् ॥ २० ॥
तस्यानुजः पर्वतनाथसूरिरासीदशेषागमपारदृश्वा । ऐकात्म्यलीलायितमादिमानां
षड्दर्शनीजन्मकृतां मुनीनाम् ।। २१॥ एक कोपि सुदर्शनं भ्रमकरं पाणी ललाटे दधौ कश्चित्कामविघातकं पदतले कश्चिच्छिवक्षोभकम् । निःशेषभ्रमभंजिकां शिवकरी कामप्रदां पर्वताधीशार्यः समदर्शयद्रसनया षड्दर्शनीमद्भुतम् ॥ २२ ।। वाग्मित्वद्युतिशुद्धिविष्णुभजनाभीष्टार्थविश्राणनैस्तस्मिन्विस्मयमावहत्यहिपतौ नित्यैकता वारिता ।