________________
PURCHASED FOR GOVERNMENT.
द्वित्वं पुष्पवतोः कृशानुषु गतं त्रित्वं चतुष्ट्वं चिरादुत्सन्नं सनकादिषु प्रशमितं पंचत्वमिंद्रुषु ।। २३ ।। येन स्वैरमभाणि पाणिनिमतं प्राणादि काणादवाग्गुंफे स्पष्टमघट्टि भट्टगुरुवागुडीकितं कुहिमे । निःशंकं निरटंकि शंकरमतं चाक्षोदि चाक्षांविवाग्ध्वन्यध्वन्युदलास्यखंडि निखिला पाखंडखंडाटवी ॥२४॥ यो वादेन जनार्दनाह्वयबुधं मध्येविपश्चित्सभं जित्वाऽविंदत वादिकेसरिपदं प्रौढं तदीयं स्वयम् | मायावादिभयंकराख्यबिरुदादत्यूजितार्जितां किं चोदंचयति स्म कीर्तिमतुलां प्रख्यापयन्वैष्णवम् ।।२।। आटोपोद्भटनाट्यधूर्जटिजटाकोटीरकोटीनटद्गातुंगतरंगरिंगणभरप्रस्पर्धिवाग्वैभवः । सोयं (स्व)प्रतिभादृषनिकष गोदामषट्दर्शनीरत्नस्रङ्मयकंधरो यदनुजो रामाह्वयः पंडितः ।। २६ ।। तस्मात्पर्वतनाथसूरिजलधेः श्रीपल्लमांबावियदंगासंगजुषो लसद्गुणमणेर्लब्धोदयश्चंद्रवत् । सोयं धर्मसुधीर्गवां विलसितैः कर्तुं रसालंक्रिया
संस्फूत्ति समुदंचयेयमधुना साहित्यरत्नाकरम् || २७ ॥ च-इति श्रीमत्रिभुवनपवित्रहरितगोत्रावतंसवाराणसीवंशपद्माकरभानना पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायपर्वतनाथपंडितमलेश्वरसूर्यसूनुना श्रीपल्लमांबागर्भरत्नाकरपारिजातेन निर्मलाचारपूरितेन चतुर्दशविद्यास्थानसिद्धांतरहस्यविज्ञानवता श्रीधर्मसंख्यावता विरचिते श्रीमद्रघुकुलतिलकगुणगणमणिधानि साहित्यरत्नाकरनामालंकारशास्त्रे रसनिरूपणं नाम दशमस्तरंगः ॥ १० ॥