________________
PURCHASED FOR GOVERNMENT.
तेष्वंगिरोमुनिवरादुदयं प्रपेदे भास्वानिवोदयगिरेर्हरितो मुनींद्रः । दोषानुषंगरहितश्च नभोगमार्ग
भ्रांतो निराकृततमाः शुचियोगदीप्तः || ११ ॥
गोत्रे च तस्य समभूदभिजातवंशो वाराणसीत्युपपदेन भुवि प्रसिद्धः | तत्रभवन्बुधवरात्रिपुरारिसोम
यज्वादयः शुभवपुःश्रुतिशीलवृत्ताः ॥ १२ ॥ देवान् हविर्भिरतिथीनशनैश्च शिष्याविद्योपदेशविधया परितोषयद्भिः ।
वाराणसीविहितनित्यनिवास दीक्षैर्यैः पंडितैर्भरतखंडममंडि पुण्यैः ॥ १३ ॥ सर्वज्ञतः शमितकामरुषो गिरीशाच्छ्री पार्वतीप्रियतमा त्रिपुरारिनाम्नः । तस्माद्बुधाद्बहुमुखोद्गतवाग्विभूतिधर्माह्वयस्समुदभून्महितः कुमारः || १४ ॥ नागांबिकां शुभगुणां प्रतिगृह्य कन्यामेकां गृहाश्रमनिवासकृते चिरं यः । अन्यप्रतिग्रहभयो निगमागमानां सत्संप्रदायमकरोदवनावखंडम् || १५ ||
शंभोर्यदीयशतरुद्रकृताभिषेक
तोयैर्ललाटगलजाप [ताप ] हरैः कपर्दे । गंगात्मना परिणतैर्दधिरेवसिक्ता
नूनं जटावलिलता शशिपुष्यशोभा ॥ १६ ॥
39