________________
38
EXTRACTS FROM MSS.
अनंतमत्यंतविशुद्धविग्रहं महश्चिदानंदमयं निरामयम् |
भशेषवेदांतविचित्यवैभवं
प्रशस्तमस्ति प्रविभास्वरं स्वतः || ५ | तदव्ययं ज्योतिरनाद्यविद्यया
वृतं रजः सत्वतमोगुणाद्यया ।
प्रजापति श्रीपति पार्वतीपतिप्रपंचरूपाणि मुहुः प्रपद्यते ॥ ६ ॥ तदेकदात्मन्यखिलं चराचरं
निधाय नारायणनामकं महः । फणींद्र पर्यकजले पयोनिधौ
चिराय रेमे निजयोगनिद्रया || ७ || ततो ऽस्य नाभीसरसः सरोरुहं
समुद्ययौ यस्य समस्तमंबरम् |
वितन्वदिंदीवरशावत्रिभ्रमं
दलांतरालेषु चिरं व्यलीयत || ८ ||
ततस्ततस्तामरसात्समुद्यत
श्चतुर्मुखस्तद्रजसेव राजसः ।
जगत्सिसृक्षुर्जगदीश शासना
त्समाधिसंपन्नमना मनागभूत् ॥ ९ ॥ अस्मात्समाधिसचिवान्मनसस्तदीयात्
पुत्रा मरीचिपुलहप्रमुखाः प्रसूताः । यत्पुत्रपौत्रतदपत्यपरंपराभिपूरितोभवदजांडकटाहगर्भः || १० ||