________________
PURCHASED FOR GOVERNMENT.
37
श्री वासुदेवतनयो विनयी तनोति
मुग्धां विदग्धमुखमंडननव्यटीकाम् ॥ ५ ॥ ग्रंथकृड्रंथादाविह शिष्टाचारपालनार्थे प्रवचनं जानन्नेव वस्तुका - व्यमुखं प्रस्तौति || सूत्रं || सिद्धौषधानि भव
च० – ७७ इति च्युतदत्ताक्षरा जातिः ॥
इति दुर्गकविकृतायां विदग्धमुखमंडनस्य टीकायाम् | वर्गोऽजनिष्ट चतुर्थः क्लिष्टपरिच्छेदवान् परिच्छेदः ॥ १ ॥ समाप्तेयं विदग्धमुखमंडनटीका ||
No. 815.
साहित्यरत्नाकरः- धर्मसुधीः ।
आ° - आलिंग्य गाढमुदरं पितुरर्धजाने - रुत्संगवर्त्यवतु बालगजाननो वः | यत्कुंभ योगिरिसुता कुच पार्श्वमाजेोः स्तन्यं पिपासति गुहस्त्रिभिराननाब्जैः ॥ १ ॥ श्रेयो मे विदधातु शारदशशि श्रीमासुरा भासुराहारासारनिरासकारिमधुरव्याहारिणी हारिणी | मुक्ताभूषणपोषणस्मितलवश्रीः साधुना साधुना (लावण्येन निजेन निर्मितवती रंभारती भारती ॥ २॥ नमस्तमः कर्दमदुर्दमां बुधिप्रणष्टचेष्टा खिलजंतुसंततिम् । प्रसार्यमाणैः पटुदीर्घरश्मिभिर्जगत्रयी मुद्धरते विवस्वते ||३|| लक्ष्मीं वक्षसि तारहारवलये तस्याः प्रियं सोदरं बिभ्रच्छुभ्रमणिं परं च नयने नाभौ च भद्रासनम् | ऊरुभ्रूगलनाभिरोमलतिकामित्राणि पंचायुधान्याश्लिष्यन् करपंकजैरवतु नः कश्चिन्महाकामुकः ॥ ४ ॥