________________
PURCHASED FOR GOVERNMENT,
29
श्रीमाधवी लसदुमाधवमाधवाज
योनिष्वभेदमतिरद्भुतदानशक्तिः ।। ११ ॥ काष्ठं कल्पतरुः सुमेरुरचलचिंतामणिः प्रस्तरः कामं कामगवी पशुः सुरपसिर्वृद्धश्रवा गोत्रभित् ।। चंद्रो हंत कलंककीलिततनुः क्षारान्वितः सागरस्तेनायं जगतीनिरुपमतमः श्रीमाधवः क्षमाधवः ।।१२।।
यश्चोर्वीतलसार्वभौममुकुटालंकारहीरायितः स्फूर्जहिव्ययशः सुधांशुविसरद्रोचिश्छटाभासुरः । मध्याह्नार्ककरपकर्षविजयिप्रोद्यत्प्रतापोदयो दानोद्रेकतिरस्कृतामरतरुस्वर्धेनुचिंतामणिः ॥ १३ ।। मूतॊ धर्म उदेयिवान्किमथवा निष्पारिजातोऽभवस्वर्गः किं सकलः कलानिधिरगात्कर्णोऽवतीर्णः किमु । पार्थोऽयं किमुपागतः पृथुरथो पृथ्वीवियोगातुरो यं वीक्ष्येति निरंतरं कविमुखादर्वति वाग्वीचयः ॥१४॥ युधिष्ठिरो भीमसेनस्तथैव यशसार्जुनः । नकुलातिक्रमी भाति सहदेवोऽच्युतो रणे ।। १५ ॥ यं प्रोइंडबिलेशयेशविलसहोर्दडचंडीभवकोदंडं रणमूर्ध्नि खंडपरशोराक्रम्य भासं स्थितम् । आलोक्यालसलोचनाः सरमसं नृत्यंति देवांगनाः कंपते हरयश्चलंति गिरयस्त्रस्यति सर्वे रथःर्वेऽरयः] ॥ १६ ॥ प्रोद्यत्कीर्तिवितानमथिडत[ मंडित नवब्रह्मांडमांडोदरे यस्मिन्भूमिपतौ प्रशासति भुवं सौभाग्यभव्यायुषि । चांचल्यं चपलासु चंद्रवदनानेत्रांचले तीक्ष्णता चंद्रे लक्ष्म करग्रहः परिणये लोकेषु नैवाभवत् ॥ १७ ॥