________________
28
EXTRACTS FROM MSS.
वेदोदितेन विधिना हयमेधमुच्चैचक्रे तथा क्रतुशतानि महाधनानि ।। ५ ॥ आसन् पूर्व मानसिंहादयो ये भास्वदश्याः क्षोणिपालाः कियंतः । चक्रुभूमिं भूमिपालान्वशे ते श्रोते मार्गे नैव निष्ठामवापुः ।। ६ ॥ राजाधिराजो जयसिंह एव तद्वंशजः प्राक्तनपुण्यपुंजात् । संभावितो दक्षिणदिग्विजेंद्रैः श्रद्धालुरासीच्छ्रतिधर्म एव ॥ ७ ॥ पपाठ वेदं विदधेऽग्निहोत्रं चकार यज्ञान्विविधान्सदैव । धनं ददौ ब्राह्मणपुंगवेभ्यो ग्रामान् गजांथापि तुरंगमांश्च ॥ ८ ॥ बभौ स तस्य क्रतुराट् तदानीं महेंद्रसंस्पर्धिसमृद्धिभाजः ।। अत्रागतश्चेत्र नकुलः स दैवा
स्वर्णार्धपार्थोऽथ भविष्यदेव ।। ९ ॥ वेदव्यासतनुः पुराणमनने तर्कागमे गौतमो वेदांतार्थविवेचने विधिसुतः काव्येषु काव्योऽपरः । शेषो व्याकरणे कलासुकुशलो गर्गस्तथा ज्यौतिषे नानाशास्त्रविचक्षणो जयहरिः क्षोणीशमुख्योऽभवत् ॥१०॥
तस्मादजायत गुणैकनिधिर्वरेण्यो विद्यानिधिविनयवारिधिरुद्धृतारिः ।