________________
30
EXTRACTS FROM MSS.
आवासो निधिसंपदा रणभुवि त्रासः प्रतिक्ष्माभृतामुल्लास: प्रतिभाजुषामतिमहान्व्यासः सभासंपदाम् | विन्यासः सुजनाशिषां प्रतिलवं रासः कुरंगीदृशां विश्वासः प्रणयातमनां यात्मनां] विजयते श्रीमाधवः माधवः १८ कवीश्वराणामय मथ] पंडितानां प्रकाशयंती विमलांतराणि । देशेष्वगम्येष्वपि संचरती विभाति सिद्धेव यदीयकीर्तिः ।।१९।। भूमंडले यद्यशसा विलिप्ते काका अभूवन्बकतुल्यभासः । किं चापणेऽज्ञायत गंधभेदात्कर्पूर कस्तूरिकयोविभेदः ।। २० ।। उष्णत्वमुचैर्वदतां कवीनां यस्य प्रतापे मतिमोह एव । यतो दधत्कंबलमद्रिदयी वसन्प्रकंपं न जहाति शत्रुः ।। २१ ।। येनार्थिसाथितपूरणार्थमर्थे [0] जलं चोभयमाददाने । सुवर्णशैलांबुनिधिस्वरूपनाशप्रसंगाद्ययतुः प्रकंपम् ।। २२ ।। शौर्ये पार्थ इवापरो वितरणे देवद्रुमो वाङ्मयव्यापारे सुरराङ्गुरुर्वसुमतीरक्षासु विश्वंभरः । धर्मे धर्मसुतः कवित्वकलने काव्यः प्रसादे शिवः सोयं कूर्मकुनैकभूषणमणिर्जीयाचिरं माधवः ।। २३ ॥ यस्याच्छाच्छाविततयोगीतबद्धप्रबंधप्रक्षिप्तांतःकरणविवशीभूतभास्वत्तनूनाम् । क्रीडंतीनां वनभुवि गले गोपसीमंतिनीनां गुंजाहारः समजनि जवात्कोपि मुक्ताच्छहारः ॥ २४ ॥ शिरःकुसुमभूषणीकृतकलानिधिस्तारकाच्छलात्कलितमौक्तिकाभरणभासुरा सर्वतः । विभाति वसुधापतेर्गगनमंदिरे चंद्रिकावपुश्चपललोचना विमलकीर्तिसीमंतिनी ॥ २५ ।।