________________
ACQUIRED FOR GOVERNMENT.
85
च० वक्रोक्तिपंचाशतिमित्थमेनां यो भावयेन्मत्सररिक्तबुद्धिः । स्पष्टोत्तरासूक्तिषु काव्यबंधे भवेत्सरत्नाकरवत्मवीणः ॥ ५१ ॥ भावयेद्विचारये [त्] स्पष्टमुत्तरं यासु तादृशीषूक्तिषु वक्रोक्तिषु काव्यबंधे सुभाषितविषये रत्नाकर: अयमेव कविवरः हरविजयकाव्यकारस्तद्वत्मवीणः कुशलः स्यात् ।। ५१ ॥
सुनूरानंददेवस्य रणभूव्योम्नि भास्वतः ॥ वक्रोक्तिवर्णनेरात्ने टिप्पनं वल्लभो व्यधात् ॥
इति श्रीबालवृहस्पत्यनुजीविनो वागीश्वरांकस्य विद्याधिपत्यपरनाम्नो हरविजयमहाकाव्यकर्त्तुः काश्मीरदेशोद्भवराजानक श्रीरत्नाकरमहाकविकृतौ वक्रोक्तिपंचाशिकायाममात्यवरानंददेवसूनुशिशुपालवधाद्यनेककाव्यटीकाकर्त्तृश्रीवल्लभदेवकृतं
टिप्पणकं संपूर्णम् ॥
नं० २१२ साम्बपञ्चाशिका - सटीका - मू० साम्बः टी० क्षेमराजः प० २९
आदिः
॥ ॐ नमः सरस्वत्यै ॥
ॐ पुष्णन् देवानमृतविसरैरिन्दुमास्राव्य सम्यग् भाभिः स्वाभीरसयति रसं यः परं नित्यमेव । क्षीणं क्षीणं पुनरपि च तं पूरयत्येवमीदृग् दोलालीलोल्लसितहृदयं नौमि चिद्भानुमेकम् ॥ १ ॥ एतदावेश्वैवश्यप्रोन्मिषद्धिषणा वयम् ॥ विमृशामो मनाक् श्रीमत्सांबपंचाशिकास्तुतिम् ॥ सोयं परामृशरसो रसज्ञैरिह रस्यताम् ॥ आयुष्याज्यामृतस्पर्शः शतपद्याहि शांतये ॥ समस्तागममहाम्नायपरमरहस्यविन्महायोगी [ग] सहस्रसंप्रदायसंपूर्णः श्रीसांबः स्वात्मविवस्वत्स्तुतिं जगतोनुग्रहाय वक्तुमुपक्रमते ॥ मू० शब्दार्थत्वविवर्त्तमानपरमज्योतीरुचो गोपतेः
मूलोपान्त्यश्लोकः
भक्तिश्रद्धाद्यखिलतरुणीवल्लभेनेदमुक्तं
श्रीसांबेन प्रकटगहनं स्तोत्रमध्यात्मगर्भम् ।
यः सावित्रं पठति नियतं स्वात्मवत्सर्वलोकान् पश्यन् सोते व्रजति शुकवन्मंडलं चंडरश्मेः ॥ ५२ ॥