________________
EXTRACTS FROM MANUSCRIPTS
+० १५९ काव्यालंकारः-सटीकः-रुद्रटः-नमिः टी० यथोद्देशस्तथा लक्षणमिति वास्तवलक्षणमाह
वास्तवमिति यदस्तुस्वरूपकथनं क्रियते तद्वास्तवमिति ज्ञेयं वस्तुन इदं वास्तवमिति कृत्वा इतिशब्दोर्थनिर्देशे वास्तवशब्दवाच्यः सोर्थ इत्यर्थः पुष्टार्थग्रहणमपुष्टार्थे निवृत्त्यर्थं तेन
गोरपत्यं बलीवईस्तृणान्यत्ति मुखेन सः ।।
मूत्रं मुंचति शिश्नेन अपानेन तु गोमयम् ।। अस्य वास्तवत्वं न भवति अविपरीतग्रहणं विवक्षितविपरीतार्थस्य वास्तवबनिवृत्त्यर्थ यथा
दंतान् निर्दलयद्रा च जडयत्तालु द्विधा स्फोटयमाज्यः संघटयद्गलं गलदिलादंत्राणि संकोचयत् ।। इत्थं निर्मलकर्करीस्थमसहपालेयवातासहं
नावत्याः प्रचुरं पिबंत्यनुदिनं प्रोन्मुक्तधारं पयः ।। अत्र हि पयसः शीतलत्वमाल्हादकत्वं च विवक्षितं तद्वैपरीत्यं च प्रतीयते निरुपमादिग्रहणं त्वनुवादमात्रं न तूपमातिशयश्लेषाणां वास्तवत्वनिवृत्तये पृथगुपादानादेव तेषामन्यत्वसिद्धेः ।। १०
नं० १६५ वक्रोक्तिपञ्चाशिका-सटीका मू० रत्नाकरः, टी.
बल्लभदेवः प०११
श्रीगणेशाय नमः टी० आ० वागीश्वरीं नमस्कृत्य गणानां च तथेश्वरम् ।
वक्रोक्तिवर्णने रात्ने पंजिका क्रियते लघु [:] ॥ १ ॥ मू० आ० सव्यालंबनमेतदद्य भवतो निस्नेह मुंचाम्यहं
सव्यालं विजहीहि सुंदरि वनं निःस्लेहता नास्ति मे । मैवं वक्ष्यसि किं वनं ननु जलं मूर्द्धा मयैवोह्यते
वक्रोक्त्येति हिमाद्रिजामवचसं कुर्वन् हरः पातु वः ।। १ ।। टी० सव्यालंबनं वामभागावस्थानं सव्यालं व्याले?ष्टसत्त्वैः सहितं वनं च
दंत्योष्ठययोर्हि शब्दालंकारेषु यमकवक्रोत्यादिषु न तथा कवयो भेदग्राहिणः मैवं कुटिलं कस्य वनविवक्षा इत्यर्थः वक्ष्यसि कथायष्यास धारयिष्यसि च वहपापणे धातोः वनं काननं जलं च अवचसं जित्वा निर्वचनाम् ॥१॥