________________
ACQUIRED FOR GOVERNMENT.
88
यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः संभोगांते वितरति सुधास्पंदमद्धेदुमौलिः ॥ १ ॥ चौडीचूडाभरणहरणः कीर्णकर्णावतंसः कर्णाटीनां मुषितमुरलीकेरलीहारलीलः । कुर्वनुर्वीतिलक तिलकोसिचलाटीललाटं जीयादेकस्तव नवयशः स्वर्णशाणः कृपाणः ॥ ६ ॥ किंचान्यद्वसुधापुरदर पुरस्त्वत्पौरुषस्य क्वचिचाहत्यस्खलितक्रमोपि गगने त्रैविक्रमो विक्रमः ।। ८ ।। जहाति नगरी गलत् [स्वकर] कंकणः कौंकणो वनं विशति विव्हल स्खलितकुंतलः कुंतलः । किमन्यदुदितक्रुधि त्वयि मृगेंद्रभीमारवं तटं विशति मारवं च्युतरमालवोमालवः ॥ १२॥ तस्थौ कंपतरंगितस्तनतटं बाष्पांबुधौताधरं शोकाक्रांतकपोलकीलितकरं द्यां मुंजराजे गते । संजाते बयि हारिहारवलयकाणं कणकंकणं चंचकांचनकांचि सा भगवती नर्ति वाग्देवता ।। १७ ॥ शेष क्लेशमशेषमुत्सृज भज त्वं कूमे कमे स्वक स्वैरं खेलत सिंधुसैकतलताकुंजेषु दिकुंजराः। अप्येतां सकुलाचलां सनगरां सांभोनिधि सापगा सद्वीपां च भुवं बिभर्ति हि भुजः श्रीहर्षपृथ्वीभुजः ॥ १९॥ श्लाघा राघव लाघवं तव गता दुष्यंत विश्वं तव म्लानिं याति यशोगता तव तथा पार्थ प्रथापार्थताम् । जातेस्मिन् गुणिबांधवे नरपतिश्यामाधवे माधवे कस्याप्यत्र न कर्ण कर्णपदवीं याता भवत्कीर्त्तयः ।। ४४ ॥ कूर्मे धैर्य शिथिलय धृतिं मुंच शेषस्य शेषामाशामाशाकरिषु वसुधे देवि मा मा दधीथाः। शक्तः सप्तांबुनिधिपरिखामेखलामप्ययं त्वां वोढुं मौर्वीकिणपरिचितोभूपतेरस्य बाहुः ।। ६६ ॥ पीयूषद्रवहारिणी सुमनसां भ्रूलास्यविस्तारिणी वत्सेवाभिरवापि काप्पभिनवा वाग्देवते भारती । अस्त्येका तु कृतांजलेर्जननि मे शंभोरियं प्रार्थना
मदाचा क्वचिदस्तु वस्तुनिपुणः श्रोता सचेतोजनः ।। ७५ ॥ इति काश्मीरदेशोद्भवशंभुकविविरचितो राजेंद्र कर्णपूरः समाप्तः ।।