________________
ACQUIRED FOR GOVERNMENT,
नं०९१-देवीस्तोत्रम् प०१५
आदि ॐ नमो गुरवे रलाकराभ्यन्तरतो गृहीत्वालंकारसूत्राणि यथाक्रमेण ।।
बंदीव देव्या गिरिराजपुत्र्याः करोमि शंसं श्रुतिगोचराणि ॥ श्रीत्रयीश्वरमित्रात्मजश्रीशोभाकरमित्रविरचिते अलंकाररत्नाकरेलंकारसूत्राणि आमुखैकारूपदं पुनरुकवदाभासम् ॥१॥ क्षमावनी लोकजनार्तिहानी झुमत्सुपर्वद्रविणार्थदात्री ॥ व्यनक्तु सिंहातु [नु ] पदाधिरुच्चैरुमाम्बिका मे दयया महोत्सवम् ॥
अत्र क्षमा अवनी इति लोक जन इति आति हानि इति न्यु [[] मत्सुपर्व इति द्रविण अर्थ इति पदअंघ्रि इति उमा अम्बिका इति महउत्सव इति आमुख्ये एकार्थत्वं वस्तुतस्तु पर्यवसानेन्यार्थत्वेन पुनरुक्तवदाभासं नामालंकारः अनवितादाच्यत्वं कायादेन प्रकल्पिते मुख्यार्थबाधसम्बंधफलाभावाव्रक्ष्यता असंबंधाभिधायित्वप्रसंगाद्यंगनापि न अत्र मस्य चार्थस्य न धर्मः पुनरुक्तता पुनरुक्तोपि वा तत्वे स एव स्यादलंकृतिः पौनरुक्त्यमलंकारस्तेनानर्थस्य कस्यचित् इति परिकर श्लोकः पुनरुक्तवदाभासं
तुल्यरूपवृत्तियमकं ॥२॥ तुल्यरूपत्वं स्वरव्यंजनसमुदायगतस्य क्रमस्य तुल्यत्वे भवति ॥ कंपात् कृतांतस्य कृतानुकंपा कंपाति नो यांघि नतेद्रकंपा । कालीव संतापहरापि काली काली नृणां सफलदास्तु काली ।। ॥ यमकम् ॥२॥
अलंकारसूत्राणि यथाक्रमेण. १ आमुखै [ख्यै] कारू [र्थ] पदं पुनरुक्तवदाभासम् ।। २ तुल्यरूपवृत्ति यमकम् ॥ ३ योईयोः साम्यं छेकानुपासः॥ ४ अन्यथा छेकानुप्रासविपरीतो वृत्त्यनुप्रासः॥ ५ तुल्याभिधेयभिन्नतापर्यशब्दावृत्तिबटानुप्रासः॥ ६ पद्मादिलिपिवर्णवाच्चित्रं च चित्रम् ॥ ७ उपमानोपमेयस्य सादृश्यमुपमा । ८ कल्पितेन कल्पितोपमा । ९ तेनैव तदेकदेशेन तंदन्वितभेदनवा (न) न्वयः॥ १० तद्विरहादसमः॥