________________
78
EXTRACTS FROM MANUSCRIPTS
११ परस्परमुपमानोपमेयत्वमुपमेयोपमा । १२ सामान्योद्दिष्टानामेकस्य निदर्शनमुदाहरणम् ॥ १३ अन्योन्यधर्मयोगार्थमौपम्यं प्रतिमा ॥ १४ सकृद्धर्मस्य निर्देशे प्रस्तुतानामप्रस्तुतानां वा तुल्ययोगिता ।। १५ मिश्राणां दीपकम् ॥ १६ वाक्यद्वये सकृत्पतिवस्तूपमा ॥ १७ प्रतिबिंबभावनावस्थानमर्थमौपम्यं दृष्टांतः ॥ १८ असति संबंधे निदर्शना ॥ १९ सदृशानुभवात्स्मरणे स्मृतिः॥ २० अन्यासंगात्कौतुकविनोदोविनोदः॥ २१ अनुभवस्मृत्यादि प्रत्यूहोव्यासंगः ॥ २२ अर्थादितस्याधिकगुणत्वं तदेकोव्यतिरेकः॥
उपमेयप्रतिकूलतोपमानस्य विवक्ष्यते स द्वितीयः ।। २३ सजातीयस्यातद्धर्मत्वं च व्यतिरेकः ।। २४ अधिकगुणस्यानादरः प्रतीपम् ॥ २५ उद्दिष्टस्य पक्षतयानुनिर्देशोवैधर्म्यम् ॥ २६ आरोपोरूपकम् ॥ २७ नियतधर्महानां [नौ] चारोप्यमाणस्यातिसाम्यमभेदः ॥ २८ प्रकृतोपयोगित्वे परिणामः ॥ २९ विषयस्यमुख्यस्यवापह्नवेन्यविधिरपहुतिः ॥ ३० तस्यापि संदिह्यमानत्वे संहेहः॥ ३१ संभावितसंभाव्यमानापोहो वितर्कः॥ ३२ विषयत्वेन संभावनमुत्प्रेक्षा ॥ ३३ अन्यरूपतया निश्चयो भ्रात्य [न्ति] मान् ॥ ३४ एकस्याप्यनेकधा कल्पनमुल्लेखः॥ ३५ संभाव्यमानस्य प्रतिमा ।। ३६ यद्यर्थव्यक्ताव्यक्तसमानस्य क्रियातिपत्तिः ।। ३७ अध्यवसानमतिशयोक्तिः॥ ३८ अप्रस्तुतादन्यप्रतीतिरप्रस्तुतप्रशंसा ॥ ३९ स्तुतिनिंदाभ्यां व्याजस्तुतिः ॥ ४० प्रतिपक्षादिसंबंधिस्वीकारः प्रत्यनीकम् ॥ ४१ प्रत्यनीकं चित्सदसत्वे विनोक्तिः ॥ ४२ सहार्थवशादेकस्यानेकसंबंधे सहोक्तिः ॥