SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 76 EXTRACTS FROM MANUSCRIPTS प्रभुप्रसादे सत्याशां न कुर्यात् स्वमसन्निभे । नंदेन मंत्री निहितः शकटालोहिबंधने ॥ ५५ ॥ आ० यत्नेन शोषयेद्दोषान्न तु तीव्रव्रतैस्तनुम् । तपसा कुंभकर्णौभून्नित्यनिद्राविचेतनः ॥ ६१ ॥ बिडंबयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः । श्रीसुतः प्राप वैरूप्यं विडंबिततनुर्मुनेः ॥ ६३ ॥ उद्वेजयेन तैक्ष्ण्येन रामाः कुसुमकोमलाः । सूर्यौभार्याभयोच्छित्यै तेजो निजमशातयत् ।। ७८ ।। पद्मवन्न नयेत्कोशं धूर्त्तभ्रमरभोज्यताम् । सुरैः क्रमेण नीतार्थः श्रीहीनोभूत्पुरांबुधिः ।। ७९ ।। बंधूनां वारयेद्वैरं नैकपक्षाश्रयो भवेत् । कुरुपांडवसंग्रामे युयुधे न हलायुधः ॥ ८८ ॥ परोपकारं संसारसारं कुर्वीत सत्ववान् । निदधे भगवान् बुद्धः सर्वसत्वोद्धृतौ धियम् ॥। ८९ ।। • जन्मावधि न तत् कुर्यादंते संतापकारि यत् । सस्मारैकशिरःशेषः सीताक्लेशं दशाननः ।। ९४ ॥ श्रव्या श्रीव्यासदासेन समासेन सतांमता । क्षेमेंद्रेण विचार्यैर्यं चारुचर्या प्रकाशिता ।। १०० ॥ इति श्रीमन्महेश्वराचार्यवर्यक्षेमेंद्र कृतमुपदेशशतकं चारुचर्याभिधं समाप्तम् ।। नं० ८१ दशकुमारचरितदीपिका प० १५ सिद्धि श्री गणपतये नमः ******** अभिवाद्य सहस्रांशुं तमोनं लघुदीपिका । कुमाराणां दशानां च चरितस्य प्रकाश्यते ॥ १॥ श्रुत्वेति । वृत्तांत प्रकारः । चंद्रकइति... कोशलाभिजनत्वात् कोशलवंशजत्वात् ॥ ॥ इति श्रीदशकुमारचरितविवरणे अष्टम उच्छ्वासः ॥ च०
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy