________________
. [६३] कस्यान्तर्भावः इति चेद, उच्यते-अध्यात्मस्य चित्रभेदस्य देवसेवाजपतचचिन्तनादिरूपस्य यथाक्रमं स्थाने ऊर्णेऽर्थे च । भावनाया अपि भाव्यसमानविषयत्वात्तत्रैव । ध्यानस्यालम्बने । समतावृत्तिसंक्षययोश्च तदन्ययोग इति भावनीयम् । ततो देशतः सर्वतश्च चारित्रिण एव स्थानादियोगप्रवृत्तिः संभवतीति सिद्धम् । ननु यदि देशतः सर्वतश्च चारित्रिण एव स्थानादिर्योगः तदा देशविरत्यादिगुणस्थानहीनस्य व्यवहारेण श्राद्धधर्मादौ प्रवर्तमानस्य स्थानादिक्रियायाः सर्वथा नैष्फल्यं स्यादित्याशङ्कयाह-'इतरस्य' देशसर्वचारित्रिव्यतिरिक्त [स्य] स्थानादिकं 'इत एव' देशसर्वचारित्रं विना योगसंभवाभावादेव 'वीजमात्रं' योगवीजमात्र 'केचिद्' व्यवहारनयप्रधाना इच्छन्ति । " मोक्षकारणीभूतचारित्रतत्त्वसंवेदनान्तर्भूतत्वेन स्थानादिकं चारित्रिण एव योगः, अपुनबन्धकसम्यग्दृशोस्तु तद्योगबीजम्" इति निश्चयनयाभिमतः पन्थाः । व्यवहारनयस्तु योगवीजमप्युपचारेण योगमेवेच्छतीति व्यवहारनयेनापुनर्बन्धकादयः स्थानादियोगवामिना, निश्चयनयेन तु चारित्रिण एवेति विवेकः । तदिदमुकाम" अपुनर्वन्धकस्यायं, व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो, निश्चयेनोत्तरस्य तु ॥२॥" (यो० वि० ३६८ श्लोक.) इति । अपुनर्वन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च 'व्यव