________________
1
[५४] 'पास्त्रिता क्रमेणैवानुभूयत इति । तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति ॥
(य०)-सर्वत्र द्रव्यतयाऽक्रमस्य पर्यायतया च क्रमस्यानुभवात् क्रमाक्रमानुविद्धलक्षण्यस्यैव सुलक्षणत्वात् कूटस्थनित्यतायां मानाभावः । पर्याये च स्थितिचातुर्विध्याद्वैचित्र्यमिति प्रवचनरहस्यमेव सयुक्तिकमिति तु श्रद्धेयम् ।। प्रकृतम्---
अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वा ? इति । अवचनीयमेतत् । कथम् ! अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यति । ॐ भो इति । अथ सर्वो मृत्वा जनिष्यत इति विभज्य वचनीयमेतत् । अत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते इतरस्तु अनिष्यते । तथा मनुष्यजातिः श्रेयसी न वा श्रेयसी? इत्येवं परिपृष्टे विभज्य वचनीयः प्रश्नः, पशूनुद्दिश्य श्रेयसी, देवान् ऋषींश्चाधिकृत्य नेति । अयं त्ववचनीयः प्रश्नः संसारोज्यमन्तवानथानन्त इति ?। कुशलस्यास्ति संसारक्रमपरिसमाचिर्नेतरस्येति अन्यवरावधारणे दोषः। तस्माद्वयाकरणीय एवायं प्रश्न इति ॥ . . - गुणाधिकारक्रमपरिसमाप्तौ कैवल्यमुक्तम्, तत्स्वरूपमव"बार्यते-- ..... पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं